पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

दिति

टिप्पणी

यथा सार्वत्रिकरूपेण ज्ञातमस्ति, दितिः खण्डनीया दृष्टिः अस्ति, अदितिः अखण्डनीया। यं कमपि अपरिचितं वयं पश्यामः, तस्य संदर्भे दितिदृष्ट्या अनुमानं कर्तुं आरभामः, तस्य गुण-दोषाणां लेखा संयोजयामः। दित्याः संदर्भे ऋग्वेदस्य कथनमस्ति -

चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान्।

राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य॥ ४.००२.११

अत्र कथनमस्ति यत् दितेः रासस्य आवश्यकता अस्ति, अदितेः उरुष्यकरणस्य। रास्वनं किमस्ति, अस्मिन् विषये ऋग्वेदस्य कथनमस्ति –

त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः।

शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा॥ २.०२७.१०

अर्थात् आदित्यदेवः विचक्षणाय अस्माकं शतं शरदानां रासनं कुर्वतु। अत्र विचक्षणं अपरिचितस्य गुण-दोषविवेचनमेवास्ति। गुण-दोषविवेचनं सम्यक् रूपेण केन प्रकारेण भवेत्, अस्मिन् संदर्भे शतशारदानां आवश्यकता अस्ति। अथर्ववेदे कथनमस्ति –

दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥ - शौअ ११.३.

अत्र दितिः शूर्पमस्ति। शूर्पे धान्यस्य आधानां कुर्वन्ति एवं शूर्पः तुषाणां पृथक्करणं करोति। यथा शूर्पः तुषाणां पृथक्करणं करोति, एवमेव अपरिचितस्य दोषाणां पृथक्करणस्य आवश्यकता अस्ति।

वास्तुयागे दितिः एवं पर्जन्यः वास्तुपुरुषस्य चक्षुद्वयौ स्तः। दितेः समीपे अदितिः अस्ति या श्रोत्रस्थानीया अस्ति।

 

ऋग्वेदस्य कथनमस्ति - हिरण्यरूपमुषसो व्युष्टावयःस्थूणमुदिता सूर्यस्य।

आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिं च॥ऋ. श्रुतविदात्रेयः ५.०६२.०८

शतपथब्राह्मणे अस्य व्याख्या एवंप्रकारेण अस्ति - अथ बाहू उद्गृह्णाति । हिरण्यरूपा उषसो विरोक उभाविन्द्रो उदिथः सूर्यश्च आरोहतं वरुण मित्र गर्तं ततश्चक्षाथामदितिं दितिं चेति बाहू वै मित्रावरुणौ पुरुषो गर्तस्तस्मादाहारोहतं वरुण मित्र गर्तमिति ततश्चक्षाथामदितिं दितिं चेति ततः पश्यतं स्वं चारणं चेत्येवैतदाह माश ५.४.१.१५ ,

 

 ऊर्जायाः आरोहणं शिरोदेशतः सीमितं नास्ति, अपितु ऊर्ध्वबाहुभ्यः अस्ति, अयं प्रतीयते। या ऊर्जा तिर्यक्रूपेण प्रसरिता अस्ति, तस्याः ऊर्ध्वदिशायां आरोहणं अपेक्षितमस्ति। एका संभावना अस्ति यत् यः ब्रह्मौदनं अस्ति, तस्य कारयित्री अदितिः अस्ति। यः प्रवर्ग्यः, ब्रह्मौदनस्य सहायकः अस्ति, तस्य कारकः दितिः अस्ति। मित्रावरुणयोः गर्ते आरोहणस्य किं तात्पर्यं भवितुं शक्यते। भागवतपुराणे कथनमस्ति – ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः। अत्र मैत्री एवं कृपा मित्रावरुणाभ्यां सम्बद्धौ स्तः।

पुराणेषु सार्वत्रिकरूपेण वर्णनमस्ति यत् दितेः पुत्राः गर्तस्य पूरणस्य प्रयासाः केन प्रकारेण कुर्वन्ति। गर्तपूरणस्य प्रथमः प्रयासः हिरण्यकशिपु – हिरण्याक्षाभ्यां भवति, तदोपरि वल असुरेण, तदोपरि वृत्रासुरेण। अन्ततः मरुतां उत्पत्तिः भवति येषां विस्तारः पृथिवीतः आकाशपर्यन्तं अस्ति। ते इन्द्रस्य सखा भवन्ति। अथर्ववेदस्य कथनमस्ति -

दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम् ।
तेषां हि धाम गभिषक्समुद्रियं नैनान् नमसा परो अस्ति कश्चन ॥शौअ ७.८.

अर्थात् दितेः पुत्राणां यः धनमासीत्, तस्योपरि अदितेः पुत्राणां देवानां अधिकारः भवति।

 

 

संदर्भाः

चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान्।

राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य॥ ४.००२.११

चित्तिं ज्ञातव्यं पुण्यम् "अचित्तिम् अनुपादेयत्वेनाचेतनीयं पापम् ।

हिरण्यरूपमुषसो व्युष्टावयःस्थूणमुदिता सूर्यस्य।

आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिं च॥ऋ. श्रुतविदात्रेयः ५.०६२.०८    

त्वमग्ने वीरवद्यशो देवश्च सविता भगः।

दितिश्च दाति वार्यम्॥ ७.०१५.१२

दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम् ।
तेषां हि धाम गभिषक्समुद्रियं नैनान् नमसा परो अस्ति कश्चन ॥शौअ ७.८.

दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥शौअ ११.३.

सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत । [१९]
तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् । [२०]
दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद शौअ १५.६.२०

अथ बाहू उद्गृह्णाति । हिरण्यरूपा उषसो विरोक उभाविन्द्रो उदिथः सूर्यश्च आरोहतं वरुण मित्र गर्तं ततश्चक्षाथामदितिं दितिं चेति बाहू वै मित्रावरुणौ पुरुषो गर्तस्तस्मादाहारोहतं वरुण मित्र गर्तमिति ततश्चक्षाथामदितिं दितिं चेति ततः पश्यतं स्वं चारणं चेत्येवैतदाह माश ५.४.१.१५ ,

अभिषेकजलसंस्कारमन्त्राः -- हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥ - तैसं १.८.१२.३

वसोर्धारा -- पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे - तैसं ४.७.९.१

 चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्येति- तैसं ५.५.४.४

दितेः पुत्राणामदितेरकारिषमुरुशर्मणां बृहतां वरूथिनां । - मैसं १.३.९

अदितिश्च पृथिवी च, दितिश्च द्यौश्च – मैसं २.११.६

दितेः पुत्राणामित्यादित्यस्थालीमभिपूरयति परिप्लवया द्रोणकलशात् २२ उपयामगृहीतोऽसि विष्णोस्त्वोरुक्रमे गृह्णामीत्यादित्यस्थाली-मभिमृशति २३ विष्ण उरुक्रमैष ते सोम इति प्रतिप्रस्थातादित्यपात्रेणादि-त्यस्थालीमपिदधात्यपिदधाति २४ मानवश्रौतसूत्रम् 2.3..२४

येषां पशूनां पुष्टिं भूयसीं कामयेत तेषां वयसाम् १५
दित्यौहीं दद्याद्दित्यवाहं च मुष्करम् आप.श्रौ.सू. ५.२०.१६

दितेः पुत्राणामदितेरकारिषमुरुशर्मणां बृहतां वरूथिनाम् । - हिरण्य.श्रौतसूत्रम् ८.६.३३

 

त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः।

शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा॥ २.०२७.१०

या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा।

तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम्॥ ३.०५७.०६

तावदुषो राधो अस्मभ्यं रास्व यावत्स्तोतृभ्यो अरदो गृणाना।

यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः॥ ७.०७९.०४