पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

द्वन्द्व

भगवद्गीतायां १०.३३ कथनमस्ति - अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च । समासशब्दानां प्रायः षट् प्रकाराः मन्यन्ते - द्वन्द्वः १ बहुव्रीहिः २ कर्म्मधारयः ३ तत्पुरुषः ४ द्विगुः ५ अव्ययीभावः ६। अत्र केवलं द्वन्द्वप्रकारस्य विवेचनमस्ति। प्रायः कथनमुपलभ्यते यत् लोके शीतोष्णप्रकाराणां ये द्वन्द्वाः सन्ति, ते वर्जनीयाः। किन्तु योगशिखोपनिषदे ६८ कथनमस्ति - योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा । सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः ॥ ६८॥  एवं तु द्वन्द्वजालस्य संयोगो योग उच्यते ।

हविर्यज्ञेषु येषां दशयज्ञमिथुनानां उल्लेखमस्ति(माश १.१.१.२२ ), तत् हविर्यज्ञेभ्यः एव सीमितं नास्ति। ये सोमयागाः सन्ति, तेषु यज्ञमिथुनानां उत्कृष्टस्वरूपाणां क्रमणं भवति। उदाहरणार्थं, शौ.अ. ९.६.१६ अनुसारेण यः शूर्पं अस्ति, सोमयागे तत् पवित्रमस्ति। यः उलूखलमुसले स्तः, तयोः सोमयागे क्रमणं ग्रावाणः रूपेण अथवा उलूखलबुध्नस्य यूपे भवति। हविर्यागे यः उपलमस्ति, तस्य सोमयागे क्रमणं उपरवसंज्ञकेषु बिलरूपेषु अस्ति, अयं प्रतीयते। या अग्निहोत्रहवणी अस्ति, यस्याः प्रयोगं अपसः धारणे भवति, तस्याः वैशिष्ट्यं हंसइव नीरक्षीरविवेकः अस्ति। सोमयागे अपसः स्थाने आज्यस्य उपयोगं भवति, तत्र अग्निहोत्रहवण्याः किं विकल्पमस्ति, अन्वेषणीयः। हविर्यज्ञे शम्यायाः न्यासं शिश्ने अस्ति। शिश्नः जिह्वायाः अनिरुक्तं रूपमस्ति। सोमयागे शम्यायाः एकं उपयोगं शम्यापरासरूपेण अस्ति।

शतपथब्राह्मणे ४.१.३ ऐन्द्रवायवसंज्ञकस्य द्विदेवत्यग्रहस्य विवेचनमस्ति। इतः परं मैत्रावरुण एवं आश्विन् ग्रहयोः विवेचनमस्ति। ऐन्द्रवायवोपरि टिप्पणी पठनीयः अस्ति।

संदर्भाः -

भूतांशस्तु(उभा उ नूनं तदिदर्थयेथे  इति - ऋ. १०.१०६) प्रजाकामः कर्माणि कृतवान्पुरा । न हि लेभे प्रजाः काश्चित् कश्यपो मुनिसत्तमः ।। १८।। उवाच भार्या भूतांशं सुतानिच्छसि यावतः । तावतो जनयिष्यामि देवता द्वन्द्वश स्तुहि ।। १९ ।। तमभ्ययुस्तु सर्वाणि द्वन्द्वानि स्तुतिकाम्यया । तान्यवेक्ष्याथ तच्चक्रे नासत्यौ सूक्तभागिनौ ।। २० ।। तदेतदन्ततो भावाद् आश्विनं सूक्तमुच्यते । न ह्यस्मिन्देवतालिङ्गं प्रागन्त्याद्दृश्यते पदात् ।।बृहद्देवता ८.२१।।

प्राणा वै द्विदेवत्या एकपात्रा गृह्यन्ते तस्मात्प्राणा एकनामानो द्विपात्रा हूयन्ते तस्मात्प्राणा द्वंद्वम्। - ऐब्रा २.२७

द्वन्द्वमिन्द्रेण देवताः शस्यन्ते द्वन्द्वं वै मिथुनं तस्माद्द्वन्द्वान्मिथुनं प्रजायते प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद – ऐब्रा ३.५०

द्वन्द्वं पात्राण्युदाहरति शूर्पं चाग्निहोत्रहवणीं च स्फ्यं च कपालानि च शम्यां च कृष्णाजिनं चोलूखलमुसले दृषदुपल तद्दश दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयत्यथ यद्द्वन्द्वं द्वन्द्वं वै वीर्यं यदा वै द्वौ सं रभेते अथ तद्वीर्यं भवति द्वन्द्वं वै मिथुनं प्रजननं मिथुनमेवैतत्प्रजननं क्रियते - माश १.१.१.२२

दीक्षणीययागाः - ता वै द्विनाम्न्यो भवन्ति । द्वन्द्वं वै वीर्यं वीर्यवत्यः सुवान्ता इति तस्माद्द्विनाम्न्यो भवन्ति माश ५.३.३.१४

अथो अपि द्वे अतिरिक्ते स्याताम्। द्वन्द्वं वै मिथुनं प्रजननं मिथुनमेवैतत्प्रजननं क्रियते सैषा सम्पत्स यज्ञः अथो अपि तिस्रोऽतिरिक्ताः स्युः। द्वन्द्वमह मिथुनं प्रजननमथ यज्जायते तत्तृतीयं सैषा सम्पत्स यज्ञः माश ११.१.२.७

घर्मसन्दीपनं ब्राह्मणम् - अथ यद्द्वन्द्वं द्वन्द्वं वै वीर्यं यदा वै द्वौ संरभेते अथ तौ वीर्यं कुरुतो द्वन्द्वं वै मिथुनं प्रजननं मिथुनेनैवैनमेतत्प्रजननेन समर्धयति कृत्स्नं करोति माश १४.१.३.१

 द्वादश मासाः संवत्सरो द्वादश द्वंद्वानि दर्शपूर्णमासयोस् तानि सम्पाद्यानीत्य् आहुः । वत्सं चोपावसृजत्य् उखां चाधि श्रयति । अव च हन्ति दृषदौ च समाहन्ति । अधि च वपते कपालानि चोप दधाति पुरोडाशं च ॥  अधिश्रयत्य् आज्यं च स्तम्बयजुश् च हरत्य् अभि च गृह्णाति वेदिं च परि गृह्णाति पत्नीं च सं नह्यति प्रोक्षणीश् चासादयत्य् आज्यं च । एतानि वै द्वादश द्वंद्वानि दर्शपूर्णमासयोस् तानि य एव सम्पाद्य यजते प्रजातेनैव यज्ञेन यजते प्र प्रजया पशुभिर् मिथुनैर् जायते ॥ - तैसं. १.६.९.४

द्व्यक्षरणिधनं ब्रह्मसाम। द्वन्द्वं प्रतिष्ठा प्रतिष्ठा ब्रह्मसाम॥ - जैब्रा १.३०९

 द्वाभ्याम् यजेत् । द्वन्द्वम् वै वीर्यम् सवीर्यतायै । त्रिष्टुब्वतीभ्याम् पूर्व अह्णे । त्रैष्टुभो ह्य् एषः । त्रींल् लोकाम् स्तब्ध्वा तिष्ठति । जगद्वतीभ्याम् अपर अह्णे । जागतो ह्य् एषः । - कौ.ब्रा. ८.७

प्रउगशस्त्रम् - अथ वैश्वदेवीम् पुरोरुचम् शंसति । सा षट्पदा भवति । ताम् ताम् ऋतव इत्य् आहुः । षड् ढ्य् ऋतवः । तस्यै द्वे द्वे पदे अवग्राहम् शंसति । तस्माद् द्वन्द्वम् समस्ता ऋतव आख्यायन्ते ग्रीष्मो वर्षा हेमन्त इति । - कौब्रा १४.५

योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा । सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः ॥ ६८॥  एवं तु द्वन्द्वजालस्य संयोगो योग उच्यते । - योगशिखोपनिषत् ६८