पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

टिप्पणी— कृष्णेन मथुरानगरीं विहाय द्वारकायाः स्थापनाकरणं विचित्रं प्रतीयते। अस्य रहस्यं एवं भवति। इन्द्रियद्वारेभ्यः ऊर्जायाः सतत् रूपेण क्षयं भवति। अस्य क्षयस्य वर्जनं अपेक्षितं अस्ति। लक्ष्मीनारायण संहिता २.२४९.७४ मध्ये कथनं अस्ति यत् बाह्य इन्द्रियद्वाराणि पिधाय ब्रह्मद्वारस्य उद्घाटनं कुरु। ब्रह्मद्वार कुत्र अस्ति, अयं विचारणीयः भवति। अयं सार्वत्रिक कथनं अस्ति यत् मथुरायाः स्थितिः हृदयदेशे अस्ति। यदि हृदयमेव ब्रह्मद्वारमस्ति, तर्हि अस्य द्वारस्य उद्घाटनं केन प्रकारेण भवेत्। हृदयः प्रेमस्य स्थानं अप्यस्ति। एकदृष्ट्या, यदि इन्द्रियेभ्यः शक्त्याः क्षरणं रुध्यति, तदा ब्रह्मद्वारस्य उद्घाटनं स्वयमेव भविष्यति। कृष्ण द्वारा मथुरायां कंसस्य हननम् मथुरारूपी ब्रह्मद्वारस्य उद्घाटनस्य प्रथमं चरणमस्ति। ब्रह्मद्वारस्य उद्घाटनोपरि वास्तविक स्थितिः कः भवति। जरासंध रूपी जरासंधेः आक्रमणेषु तीव्रता भवति। डा. फतहसिंह अनुसारेण प्रत्येकं जीवः जरायाः संधिरस्ति। तस्य चेतनायाः एकः भागः सतत् रूपेण जराग्रस्तं भवति। अन्य भागः जरायाः निरपेक्षमस्ति। कृष्ण – बलरामौ जरासंधेन सह पुनः – पुनः युद्धं कुर्वन्ति। अन्ततः यदा कालयवनः जरासंधेन सह आगति, तदा ते कालयवनस्य भस्मकरणाय कालयवनं स्वपितं मुचुकुंदस्य गुहायां प्रावेशयन्ति। मुचुकुंदस्य दृष्टिमात्रेण कालयवनः भस्मीभूतं भवति। अयं संकेतः अस्ति यत् ब्रह्मद्वारस्य उद्घाटनोपरि काल निरपेक्ष स्थित्याः प्रापणं द्वितीयं चरणमस्ति। तत्पश्चात् कृष्ण – बलरामौ मथुरां विहाय द्वारकायाः पुर्याः निर्माणं कारयन्ति। अयं संकेतः यत् इन्द्रियद्वारेभ्यः ऊर्जायाः क्षरणस्य रोधनस्य अयं उचितं कालः अस्ति। पुराणेषु इन्द्रियेभ्यः ऊर्जायाः क्षरणं चतुर्दिक्षु विभाजितं भवति – पूर्व, दक्षिण, पश्चिम, उत्तर। नारद पुराण १.७५.७० अनुसारेण चतुर्दिक्षु द्वारोपरि क्रमशः गजः, महिषः, सर्पः, व्याघ्रः स्थापनीयं अपेक्षितं भवति। अयं प्रतीयते यत् एते जीवाः ऊर्जायाः क्षयस्य प्रतीकाः सन्ति। कालिका पुराण ६४.३९ मध्ये चतुर्दिक्षु द्वारेषु काम, प्रीति, रति एवं मोहनस्य स्थितिः अपेक्षणीयं अस्ति। पूर्वद्वारोपरि कामः स्थापनीयं। कामः अर्थात् धारणायाः तीव्रावस्था यत्र यत्किंचित् कामयामहे, तत् अवश्यं पूरणीयं भविष्यति, कल्पवृक्षस्य उत्पत्तिर्भविष्यति। यदि कल्पवृक्षस्य आविर्भावं न भवति, तर्हि ऊर्जायाः क्षरणं अवश्यं भविष्यति। दक्षिण द्वारोपरि प्रीति, प्रेमस्य आविर्भावं अपेक्षितं अस्ति। पश्चिम् द्वारोपरि रत्याः आविर्भावं अपेक्षितं अस्ति। रति अर्थात् एकीभवनं, सायुज्यकरणम्। उत्तरद्वारोपरि मोहनं अपेक्षणीयमस्ति। मोहनं अर्थात् आवां चेतनाक्षेत्रः एतावत् विस्तृतं भवति यत् अस्मिन् क्षेत्रे आवां साम्राज्यं एव वर्तते।

     वाल्मीकि रामायण युद्धकाण्ड ६.३७.२७ मध्ये लंकायाः पूर्वादि द्वारेषु नील, अंगद, हनुमान एवं राम-लक्ष्मणस्य स्थित्याः कथनं भवति। गर्ग संहिता  ६.२१ मध्ये द्वारकायाः तृतीय दुर्गस्य पूर्वादि द्वारेषु हनुमान, सुदर्शन चक्र, जांबवान, एवं विश्वक्सेनस्य स्थितिः भवति।  अयं विचारणीयः यत् सुदर्शनस्य स्थापनेन प्रीति, प्रेमस्य वर्धनं केन प्रकारेण भवितुं संभवमस्ति। जाम्बवानस्य स्थापनेन रत्याः वर्धनं केन प्रकारेण संभवमस्ति।

     गर्ग संहिता ६.२० मध्ये द्वारकायाः पूर्व द्वारोपरि इन्द्रस्य स्थितिः, दक्षिण द्वारोपरि सूर्यकुण्डस्य अथवा स्यमन्तक मणेः स्थिति अपेक्षितं अस्ति, पश्चिम द्वारस्य संज्ञा ब्रह्मतीर्थमस्ति एवं उत्तरद्वारोपरि नीललोहितस्य स्थितिः अपेक्षितमस्ति। स्यमन्तक मणेः प्रसिद्धिः धनस्य, स्वर्णस्य उत्पादनरूपेण अस्ति। अयं संकेतः यत् प्रीत्याः वर्धनं यदा भविष्यति, तदा ऋणात्मक स्थित्याः समापनं भविष्यति।

     पुराणेषु द्वारकायाः माहात्म्य वर्णने गोमती नद्याः विशेष महत्त्वमस्ति। गोमती नद्यां चक्रांकित शिलायाः विद्यमानता अस्ति। ऋग्वेद १.४८.१५ मध्ये कथनं अस्ति –

उषो यदद्य भानुना वि द्वारावृवो दिवः ।

प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥

कथनं अस्ति यत् उषा द्वारा भानुना द्युलोकस्य द्वारस्य उद्घाटनं भवति। यदा एवं भवति, तदा अवृक छर्दि एवं गोमती इषस्य प्राप्तिः अपेक्षितं भवति। इषः अभीप्सायाः प्रतीकमस्ति यस्य विस्तृत विवरण हेतु इष उपरि टिप्पणीः पठनीयं अस्ति।

 

प्रथमं लेखनं – ज्येष्ठ शुक्ल द्वितीया, विक्रम संवत् २०७३ (6-6-2016ई.)

मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै।
मरुद्भ्यो दैवतेभ्यश्च बलिमन्तर्गृहे हरेत्।।

13-154-13a
13-154-13b

तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं यथा हरेत्।।

13-154-14a
13-154-14b

 

 

-    महाभारत अनुशासन

धर्म्माधर्ममयौ द्वारे गृहमध्ये ध्रुवाय च ।
मृत्यवे च वहिर्दद्याद्वरुणायोद काशये ।। २६४.१७ ।।

भूतेभ्यश्च बहिर्द्दद्याच्छरणे धनदाय च ।
इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्वेण मानवः ।। २६४.१८ ।। अग्नि

अथ तेन सिंहस्यामात्य-पदवी प्रदत्ता। व्याघ्रस्य शय्या-पालकत्वम्। द्वीपिनस् तांबूलाधिकारः। वृकस्य द्वार-पालकत्वम्। - पंचतन्त्र 1.284

ॐ गोरक्ष-शतकं वक्ष्ये भव-पाश-विमुक्तये ।
आत्म-बोध-करं पुंसां विवेक-द्वार-कुञ्चिकां ॥ १ ॥ गोरक्षशतकं

तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम् ।।
पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा ।। ७५-७0 ।।

सर्पस्तु पश्चिमे द्वारे व्याघ्रश्चैवोत्तरे तथा ।।
एवं क्रमेण खड्गं च क्षुरिकादंडमुद्गरान् ।। ७५-७१ ।। - नारद 1.

गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् ।।
द्वारे धाता विधाता च गंगायमुनया सह ।।28.1।।

शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया ।।
पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ ।। 28.2 ।।

पश्चिमे बलप्रबलौ जयश्च विजयो यजेत् ।।
उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती ।। 28.3 ।। - गरुड 1.

द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः ।
अलङ्‌कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः ॥ १५ ॥ भागवत 1.11.

सङ्कर्षणादिबीजानि पूर्वादिक्रमयोगतः ।।
द्वारि पूर्वे परे चैव वैनतेयं तु विन्यसेत् ।। 11.22 ।।

सुदर्शनं सहस्त्रारं दक्षिणे द्वारि विन्यसेत् ।।
श्रियं दक्षिणतो न्यस्य लक्ष्मीमुत्तरतस्तथा ।। 11.23 ।।

द्वार्य्यत्तरे गदां न्यस्य शङ्खं कोणेषु विन्यसेत् ।।
देवदक्षिणतः शार्ङ्गं वामे चैव सुधीर्न्यसेत् ।। 11.24 ।। - गरुड 1.

श्रृणु सूर्य्यस्य रुद्र त्वं पुनर्वक्ष्यामि पूजनम् ।।
ॐ उच्चैः श्रवसे नमः ॐ अरुणाय नमः ।।
ॐ दण्डिने नमः ।।
ॐ पिङ्गलाय नमः ।।
एते द्वारे प्रपूज्या वै एपिर्मन्त्रैर्वृषध्वज ।। 39.2 ।। गरुड 1.

अक्षिणी नासिके कर्णौ मुखं शिश्नगुदौ इति ।
द्वे द्वे द्वारौ बहिर्याति यस्तद् इन्द्रियसंयुतः ॥ ८ ॥
अक्षिणी नासिके आस्यं इति पञ्च पुरः कृताः ।
दक्षिणा दक्षिणः कर्ण उत्तरा चोत्तरः स्मृतः ॥ ९ ॥
पश्चिमे इत्यधो द्वारौ गुदं शिश्नमिहोच्यते । - भागवत 4.29

पूर्वद्वारि प्रथमतः कामतत्त्वं प्रपूजयेत्।
दक्षिणे प्रीतितत्त्वं तु रतितत्त्वं च पश्चिमे।। ६४.३९ ।।

उत्तरे मोहनं तत्त्वं क्रमादेतानि पूजयेत्।
ऐशान्यां पूजयेद् देव गणैशं द्वारपालकम्।। ६४.४० ।। - कालिका

चत्वारो विदिताः सर्वे द्वारपाला महात्मभिः ।।
पिंगलेश्वरेति च ख्यातः पूर्वद्वारे द्विजोत्तम ।। ८५ ।।
दक्षिणे च तथा द्वारे कायावरोहणेश्वरः ।।
बिल्वकेश्वरेति विख्यातः पश्चिमद्वारमाश्रितः ।। ८६ ।।
दर्दुरेश्वरस्ततः प्रोक्तो द्वारे चोत्तरसंज्ञिके ।।
एते चाऽन्ये च बहवो लिंगाख्यास्त्रिभुवनेश्वराः ।। ८७ ।। स्कन्द अवन्तिका 70.

यदा सा नर्मणे याता गौरी स्मरहरन्तिकम्।
तदा भृङ्गिमहाकालौ द्वाःस्थौ द्वारि प्रतिष्ठितौ।। ४७..४ ।। कालिका

द्वारि द्युनद्या ऋषभः कुरूणां
     मैत्रेयमासीनमगाधबोधम् ।
क्षत्तोपसृत्याच्युतभावसिद्धः
     पप्रच्छ सौशील्यगुणाभितृप्तः ॥ १ ॥ - भागवत 3.5

पञ्च द्वारस्तु पौरस्त्या दक्षिणैका तथोत्तरा ।
पश्चिमे द्वे अमूषां ते नामानि नृप वर्णये ॥ ४६ ॥
खद्योताऽऽविर्मुखी च प्राग् द्वारावेकत्र निर्मिते ।
विभ्राजितं जनपदं याति ताभ्यां द्युमत्सखः ॥ ४७ ॥
नलिनी नालिनी च प्राग् द्वारौ एकत्र निर्मिते ।
अवधूतसखस्ताभ्यां विषयं याति सौरभम् ॥ ४८ ॥
मुख्या नाम पुरस्ताद् द्वाः तयाऽऽपणबहूदनौ ।
विषयौ याति पुरराड् रसज्ञविपणान्वितः ॥ ४९ ॥
पितृहूर्नृप पुर्या द्वाः दक्षिणेन पुरञ्जनः ।
राष्ट्रं दक्षिणपञ्चालं याति श्रुतधरान्वितः ॥ ५० ॥
देवहूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।
राष्ट्रं उत्तरपञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥
आसुरी नाम पश्चाद् द्वाः तया याति पुरञ्जनः ।
ग्रामकं नाम विषयं दुर्मदेन समन्वितः ॥ ५२ ॥
निर्‌ऋतिर्नाम पश्चाद् द्वाः तया याति पुरञ्जनः ।
वैशसं नाम विषयं लुब्धकेन समन्वितः ॥ ५३ ॥ भागवत 4.25

तद् आहुः किं द्वाः किं दश किम् अहर् इति। स ब्रूयाद् आदित्य एव द्वार् आदित्यो दशादित्यो ऽहर् इति। स यद् आदित्य एव द्वार् इत्य् एष ह्य् एव स्वर्गस्य लोकस्य द्वारम्।– जै.ब्रा.3.375

श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे २०
सुदामा च तथा पूर्वे किंकिणी चापि दक्षिणे – पद्म 5.70

द्वाराणि तत्र शोभंते कांचनैः कलशैः स्थितैः ।।
सितपद्ममुखैर्द्वारैरनेकमणिमंडितैः ।। ४ ।।
महेश्वरप्रयुक्ताश्च द्वाराध्यक्षा महाबलाः ।।
द्वारेषु तेषु शोभंते लोकानुग्रहकारकाः ।। ५ ।।
पिंगलेशः स्थितः पूर्वे बालरूपो विभावसुः ।।
तीर्थस्याभिमुखो गौरो गुरुर्गणैरथानुगः ।। ।। ६ ।।
दक्षिणेऽपि महायोगी कायावरोहणेश्वरः ।।
वित्तेशः पश्चिमे द्वारे क्षेत्रस्याभिमुखः स्थितः ।। ७ ।।
नियुक्तो वै महेशेन वारुणीं दिशमास्थितः ।।
उत्तरां दिशमाश्रित्य स्थितश्चैवोत्तरेश्वरः ।। ८ ।।
साधकः सर्वकार्याणामादिष्टः शंकरेण सः ।।
मानवा ये वसंत्यत्र क्षेत्रमध्ये सुधार्मिकाः ।। ९ ।।- स्कन्द 5.26

रात्रिसूक्तञ्च रौद्रञ्च

पावमानं सुमङ्गलम् । जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचाः

पृथक् । शाक्रं रौद्रञ्च सौम्यं च कूष्माण्डं जातवेदसम् ।

सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः । वैराज्यं

पौरुषं सूक्तं सौपर्णं रुद्रसंहिताम् । शैशवं पञ्च

निधनं गायत्रं ज्येष्ठसाम च । वामदेव्यं वृहत्साम

रौरवं सरथन्तरम् । गवां व्रतं च काण्वञ्च रक्षोघ्नं

वयसस्तथा । गायेयुः सामगा राजन्! पश्चिमं द्वार-

माश्रिताः । अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा ।

जपेयुर्मनसा देवमाश्रित्य वरुणं प्रभुम्

-    वाचस्पत्यम् तडाग

एषा वै यज्ञस्य द्वार् यद् अन्तराग्नीध्रं च चात्वालं च। तयाभ्यवेयात्। तयोदेयात्। - जै.ब्रा. 1.84

ब्रह्मणे गृहमध्ये तु विश्वेदेवेभ्य एव च ।
धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां बलिं क्षिपेत्॥२९.१७॥


प्राच्यां शक्राय याम्यायां यमाय बलिमाहरेत् ।
प्रतीच्यां वरुणायाथ सोमायोत्तरतो बलिम्॥२९.१८॥

दद्याद्धात्रे विधात्रे बलिं द्वारे गृहस्य तु ।
अर्यम्णेऽथ बहिर्दद्याद् गृहेभ्यश्च समन्ततः॥२९.१९॥

नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् ।
पितॄणां निर्वपेच्चैव दक्षिणाभिमुखस्थितः॥२९.२०॥ मार्कण्डेय

,१३०.०३ व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः ।

,१३०.०३  अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥

,०१७.०२ उत द्वार उशतीर्वि श्रयन्तामुत देवाँ उशत आ वहेह ॥

,०९५.०६  अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः ।

,०९५.०६ वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥

,०१०.०६  अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः ।

,०१०.०६ वृष्णो हरस आयवः ॥

,०६३.०१  स पूर्व्यो महानां वेनः क्रतुभिरानजे ।

,०६३.०१ यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥

,००५.०१  प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम् ।

,००५.०१ पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः ॥

,०४८.१५  उषो यदद्य भानुना वि द्वारावृणवो दिवः ।

,०४८.१५ प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥

bullet

(9,322अ) प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्य् अहिंसतीम् |

bullet

(9,322च्) अग्निर् ह्य् अन्तर् आपश् च ऋतस्य प्रथमा द्वाः ||22||

bullet