PURAANIC SUBJECT INDEX

(From Nala to Nyuuha )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE


Nala - Nalini( words like  Nala, Nalakuubara, Nalini etc.)

Nava - Naaga ( Nava, Navaneeta / butter, Navami / 9th day, Navaratha, Navaraatra, Nahusha, Naaka, Naaga / serpent  etc.)

Naaga - Naagamati ( Naaga / serpent etc.)

Naagamati - Naabhi  ( Naagara, Naagavati, Naagaveethi, Naataka / play, Naadi / pulse, Naadijangha, Naatha, Naada, Naapita / barber, Naabhaaga, Naabhi / center etc. )

Naama - Naarada (Naama / name, Naarada etc.)

Naarada - Naaraayana (  Naarada - Parvata, Naaraayana etc.)

Naaraayani - Nikshubhaa ( Naaraayani, Naarikela / coconut, Naaree / Nari / lady, Naasatya, Naastika / atheist, Nikumbha, Nikshubhaa  etc.)

Nigada - Nimi  ( Nigama, Nitya-karma / daily ablutions, Nidhaagha, Nidra / sleep, Nidhi / wealth, Nimi etc.)

Nimi - Nirukta ( Nimi, Nimesha, Nimba, Niyati / providence, Niyama / law, Niranjana, Nirukta / etymology etc. )

 Nirodha - Nivritti ( Nirriti, Nirvaana / Nirvana, Nivaatakavacha, Nivritti etc. )

Nivesha - Neeti  (Nishaa / night, Nishaakara, Nishumbha, Nishadha, Nishaada, Neeti / policy etc. )

Neepa - Neelapataakaa (  Neepa, Neeraajana, Neela, Neelakantha etc.)

Neelamaadhava - Nrisimha ( Neelalohita, Nriga, Nritta, Nrisimha etc.)

Nrihara - Nairrita ( Nrisimha, Netra / eye, Nepaala, Nemi / circumference, Neshtaa, Naimishaaranya, Nairrita etc.)

Naila - Nyaaya ( Naivedya, Naishadha, Naukaa / boat, Nyagrodha, Nyaaya etc.)

Nyaasa - Nyuuha ( Nyaasa etc. )

 

 

नाक

टिप्पणी

स्कन्दपुराण २.४.३०.२३ अनुसारेण पुण्यकृत्याः नाकस्य निर्माणं कुर्वन्ति, पापकृत्याः नरकस्य। निरुक्तशास्त्रानुसारेण - नाकः आदित्यः भवति [ नेता रसानाम् ] नेता भासाम् । ज्योतिषां प्रणयः । अथ द्यौः । कम् इति सुखनाम । अथ द्यौः । न वा अमुं लोकं जग्मुषे किं च न असुखम् । एतेन द्यौः व्याख्याता । न वा अमुं लोकं जग्मुषे किं च नाकम् । । निरुक्त २.१४

ब्राह्मणग्रन्थेषु एकः कथनमस्ति यत् संवत्सरः एव नाकः अस्ति। (माश ८.४.१.[२४])

ऋग्वेद ३.५.१० अनुसारेण - उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम्। अयं संकेतमस्ति यत् नाकः पतनशीलः अस्ति। तस्य स्तम्भनार्थं समिधस्य आवश्यकता भवति। ऋग्वेदे ७.९९. कथनमस्ति यत् विष्णुः नाकस्य ऊर्ध्वधारणं करोति एवं पृथिव्योपरि प्राचीं दिशां ककुभरूपेण धारयति। लक्ष्मीनारायण संहिता ३.१००.१३६ मध्ये नाकः शिल्पी अस्ति एवं ककुभस्य पतिः अस्ति।

ऋग्वेदे १०.९०.१६ मध्ये कथनमस्ति – ये स्वसंकल्पानां सिद्धिहेतु यज्ञेन यज्ञं कुर्वन्ति, ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः।। संकल्पसिद्धियज्ञस्य आरम्भः लघुत्तमाकारतः भविष्यति एवं क्रमिकरूपेण बृहत्तररूपं धारयिष्यति। अयं एकः विकल्पः अस्ति। द्वितीयः विकल्पः साध्यानां देवानां अस्ति। यदा संकल्पः अतिप्रबलः अस्ति, तदा क्रमस्य आवश्यकता नास्ति।

संदर्भाः

ये नाकस्याधि रोचने दिवि देवास आसते ।
मरुद्भिरग्न आ गहि ॥१.१९.

"ये मरुतः "नाकस्याधि दुःखरहितस्य सूर्यस्योपरि दिवि द्युलोके रोचने दीप्यमाने ये देवासः स्वयमपि दीप्यमानाः "आसते तैः मरुद्भिः इत्यन्वयः ॥ नाकस्य। कं सुखम् । तत् यस्मिन्नास्ति असौ अकः इति बहुव्रीहिं कृत्वा पश्चात् नञ् । न अको नाक इति नञ्तत्पुरुषः ।

तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥१.३४.

तिस्रः "पृथिवीरुपरि त्रिभ्यः पृथिव्यादिलोकेभ्य ऊर्ध्वं "प्रवा प्रवन्तौ गच्छन्तौ युवां "दिवो "नाकं द्युलोकसंबन्धिनमादित्यं रक्षेथे । कीदृशं नाकम् । द्युभिः अहोभिः "अक्तुभिः रात्रिभिश्च हितं स्थापितम् । अहनि सूर्य उदेति रात्रावस्तं गच्छतीत्येवमहोरात्राभ्यां सूर्यो व्यवस्थाप्यते इत्यर्थः ॥ 

वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ॥१.६८.१०

नास्मिन्नकं दुःखमस्तीति नाको द्युलोकः । तम् । स्तृभिरिति नक्षत्रनाम । स्तृभिः नक्षत्रैः "पिपेश अवयवीचकार नक्षत्रैर्युक्तमकरोदित्यर्थः 

तेऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः ।१.८५.७

वृद्धिं प्राप्य च "महित्वना महिम्ना महत्त्वेन "नाकं स्वर्गम् तस्थुः आस्थितवन्तः। 

नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति ।
तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥१.१२५.

यः यो मर्त्यः पृणाति हविरादिदानेन देवादीन् प्रीणाति सः नाकस्य । कमिति सुखनाम । तद्विरुद्धम् अकम् । न विद्यते अकं दुःखं तत्साधनं पापं वेति नाको द्युलोकः । तथा च श्रूयते - न वा अमुं लोकं जग्मुषे किं च नाकम् ' ( निरु. २. १४; का. सं. २१. २ ) इति । तस्य पृष्ठे उन्नते उपरिदेशे श्रितः सन् अधि अधिकमाकल्पान्तं तिष्ठति । यद्वा । अधि तिष्ठति । अधिष्ठाय प्रमुखो भूत्वा तिष्ठति । न केवलं स्वर्गाश्रयणं किंतु देवेषु मध्ये गच्छति वर्तते स्वयमेव देवो भवतीत्यर्थः ।

अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु ।१.१३९.४

हे दस्रा दस्रावश्विनौ अचेति वक्ष्यमाणं युष्मच्चेष्टितं ज्ञायते सर्वैः । किं तदिति तदुच्यते । नाकं स्वर्गं वि ऋण्वथः विशेषेण गच्छथः ॥ ऋणु गतौ । तानादिकः । लेटि अडागमः । यज्ञसंपूर्त्यनन्तरमिति यावत् । उशब्दोऽवधारणे । यद्वा । नाकम् । अकं दुःखम् । तद्रहितं यज्ञमृण्वथः। विशेषेण गच्छथ एव । 

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१.१६४.५०

ते नाकं विष्णुलोकं महानुभावाः सचन्त संगच्छन्ते । यत्र पूर्वे साध्यादयो देवाः सन्ति तत्स्थानम्।

वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः । ३.२.१२

स्तूयमानो वैश्वानरो जातमात्र एव प्रत्नथा प्रत्न इव चिरंतन इव नाकं । कं सुखं । अकं दुःखं । न विद्यते ऽकं यस्मिन् तन्नाकं । दिवोंऽतरिक्षस्य पृष्ठमुपरितनप्रदेशं स्वरोहिद्भिरारुहत् ।। आरोहति । 

उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम्।
यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे॥३.५.१०

ऋष्वो महानग्निः समिधा तेजसा नाकं स्वर्गमुदस्तंभीत् । उदस्तभ्नात् । रोचनानां शोभनानां तेजसां मध्य उत्तमो भवन् उत्कृष्टतमो भवन् मातरिश्वा वायुर्भृगुभ्य आदित्यस्य रश्मिभ्यो गुहा गुहायां संतं हव्यवाहं हव्यानां वोढारमग्निं यदि यदा समीधे समैंद्ध तदा नाकमस्तभ्नादिति संबंधः ॥

कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥४.१३.

 अपि च दिवः द्युलोकस्य स्कम्भः स्तम्भः समृतः नाकेन समवेतः सूर्यः नाकं स्वर्गं पाति पालयति ।

अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे ।
तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया ॥ऋ. ५.१७.

किंविशिष्टमग्निम् । "नाकं सुखम् । अकं दुःखम् । न विद्यतेऽकं यस्य सः । तं "चित्रशोचिषं चित्रतेजसं "मन्द्रं स्तुत्यं परः परस्तात् स्थितम् ॥

व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥६.८.

तथा सुक्रतुः शोभनकर्मा वैश्वानरः अग्निः महिना स्वमहिम्ना तेजसा नाकं द्युलोकम् अस्पृशत् स्पृशति स्म ।।

स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः ॥ ६.४९.१२

स्तृभिर्न नाकम् । यथा नक्षत्रैर्नाकमन्तरिक्षं स्पर्शयति संश्लेषयति तद्वत् ॥

उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेरवंशात् ॥७.५८.

 तथा निर्ऋतेः भूमेः अवंशात् अन्तरिक्षाच्च नाकं स्वर्गं नक्षन्ते व्याप्नुवन्ति ॥

उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥७.९९.

ऋष्वं दर्शनीयं "बृहन्तं महान्तं नाकं द्युलोकम् उदस्तभ्नाः त्वमूर्ध्वमधारयः । यथाधो न पतति तथा ।

स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे ॥८.४१.

सः वरुणः "मायाः असुराणां मायाः अर्चिना अर्चिष्मता पदा स्थानेन । तेजसेत्यर्थः। अस्तृणात् समन्ताद्धिनस्ति । नाकं स्वर्गम् आरुहत् आरोहति । सिद्धमन्यत् ॥

प्र दैवोदासो अग्निर्देवाँ अच्छा न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥८.१०३.

 यस्मादेनमग्निं दिवोदासः मज्मना बलेन आजुहाव तस्मादयमग्निः नाकस्य स्वर्गस्य "सानवि समुच्छ्रिते देशे स्वायतन एव "तस्थौ अतिष्ठत् ॥

अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुम् ॥१०.११३.

तथा सः पृथुं महान्तं नाकं लोकं स्वपस्यया ॥ सुप आत्मनः क्यच् । अ प्रत्ययात् ' ( पा. सू. ३.३.१०२) इति स्त्रियामप्रत्ययः ॥ शोभनकर्मेच्छया अस्तभ्नात् । निरुद्धमकरोत् ।। स्तम्भिः सौत्रो धातुः ।।

येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः ।१०.१२१.५

स्वः स्वर्गश्च येन स्तभितं स्तब्धं कृतम् । यथाधो न पतति तथोपरि अवस्थापितमित्यर्थः । ग्रसितस्कभितस्तभित०' इति निपात्यते ।। तथा नाकः आदित्यश्च येन अन्तरिक्षे स्तभितः ।

विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्तु ॥ - शुक्ल यजुर्वेदः १५.१०

क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः ।

दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥शौअ ४.१४.२॥

पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् ।
दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम् ॥शौअ ४.१४.

पूर्णा पश्चादुत पूर्णा पुरस्तादुन्मध्यतः पौर्णमासी जिगाय ।
तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ॥शौअ ७.८५.

पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥
अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।शौअ ९.५.१०

ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः ।
ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥शौअ १८.२.४७

त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।
स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम् ॥शौअ १८.४.

प्र दैवोदासो अग्निर्देवाङ् अच्छा न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि। पैसं २०.५५. ।।

प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना |
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि || सामवेदः १.१.५.५१ ||

 

 क्रमध्वं अग्निना नाकं उख्यं हस्तेषु बिभ्रतः ।दिवः पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वं ॥.....पृथिव्या अहं उदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहं । दिवो नाकस्य पृष्ठात् स्वर् ज्योतिरगामहं ॥ मैसं २.१०.६

१. तम् (त्रयस्त्रिशं स्तोमम् ) उ नाक इत्याहुर्न हि प्रजापतिः कस्मै चनाकम् । तां १०, ,१८ ।

२. नाकं  रोहति स्वर्गमेव तल्लोकं  रोहति । तां १८, , १० ।

३. नाकं साम्राज्यम् ( छन्दः) । शांआ ११, ७ ।

४. नाकम्•••• न वै तत्र किंचन जग्मुषे ऽकम् । मै ३, , १ (तु. तां २१, , ४)।

५. नाकः षट्-त्रिंशः ( स्तोमः ) । तैसं ४, , , ; मै २, , ४ ।

६. ये देवयानाः पन्थानस्तेष्वतिरात्रेण नाके बृहतस्स्तोत्रेण ( प्रतितिष्ठति )। काठ १४,

७. येना ऋषयस्तपसा सत्रमासतेन्धाना अग्निं  स्वराभरन्तः । यमाहुर्मनवः स्तीर्णबर्हिषं तस्मिन्नहं निदधे नाके अग्निम् । मै २, १२, ४ ।

८. नाकः षट्-त्रिंशः इति । य एव षट्-त्रिंशः स्तोमस्तं तदुपदधात्यथो संवत्सरो वाव नाकः षट्त्रिंशस्तस्य चतुर्विंशतिरर्धमासा द्वादश मासास्तद्यत्तमाह नाक इति न हि तत्र गताय कस्मै चनाकं भवत्यथो संवत्सरो वाव नाकः संवत्सरः स्वर्गो लोकस्तदेव तद्रूपमुपदधाति माश ८.४.१.[२४]

 

वाक्च तौ मनश्च तौ हीदं सर्वं विधारयतस्ते त्वा सर्वे संविदाना नाकस्य पृष्ठे स्वर्गे लोके यजमानं च सादयन्त्विति यथैव यजुस्तथा बन्धुः माश ८.६.१.[५]

उदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहमिति गार्हपत्याद्ध्याग्नीध्रीयमागच्छन्त्याग्नीध्रीयादाहवनीयं दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहमिति दिवो नाकस्य पृष्ठात्स्वर्गं लोकमगामहमित्येतत् माश ९.२.३.[२६]

९. स नाको नाम दिवि रक्षोहाग्निः । मै ४,,; काठ ३१,; क ४७,७।

पुरोडाशँ वा अधिश्रितं रक्षांस्यजिघांसन् , स नाको नाम दिवि रक्षोहाग्निः, सोऽस्माद्रक्षांस्यपाहरन्, यदाह, देवस्त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके पृथिव्या, इति रक्षसामपहत्यै मै ४.१.९

१०. सुवर्गों वै लोको नाकः । तैसं ५, , , ५ ।।

११. सूर्यस्त्वा पुरस्तात् पातु कस्याश्चिदभिशस्त्याः (+वर्षिष्ठे ऽधि नाके [काठ., क. 1 )। तैसं १, , ११, ; काठ १, ११; क १, ११ ।

१२. स्वर्गों वै लोको नाकः [+यस्यैता (नाकसद इष्टकाः ) उपधीयन्ते, नास्मा अकं भवति तैसं.]]। तैसं ५, , , ; माश ६,,,१४;,,४ ॥

पृथिव्या अहम् । उदन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहमिति गार्हपत्याद्ध्याग्नीध्रीयमागच्छन्त्याग्नीध्रीयादाहवनीयं दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहमिति दिवो नाकस्य पृष्ठात्स्वर्गं लोकमगामहमित्येतत् - ९.२.३.[२६]

स्वो रुहाणा अधि नाकमुत्तममिति स्वर्गो वै लोको नाकः स्वर्गं लोकं रोहन्तोऽधि नाकमुत्तममित्येतत् माश ६.३.३.१४

वि नाकमख्यत्सविता वरेण्य इति स्वर्गो वै लोको नाकस्तमेष उद्यन्नेवानुविपश्यति – माश ६.७.२.४

अथ यज्ञायज्ञीयम्। स ह स नाक एव स्तोमः। आदित्य एव सः। एष ह न कस्मै चनाकमुदयति। जै १.३१३

नाकष्षट्त्रिंश इत्युत्तरात्, स्वर्गो वै लोको नाकः – काठ २०.१३

नाकः आदित्यः भवति [ नेता रसानाम् ] नेता भासाम् । ज्योतिषां प्रणयः । अथ द्यौः । कम् इति सुखनाम । अथ द्यौः ।
न वा अमुं लोकं जग्मुषे किं च न असुखम् । एतेन द्यौः व्याख्याता । न वा अमुं लोकं जग्मुषे किं च नाकम् । । निरुक्त २.१४

दिश्४९ द्र.]।

नाक-सद्

१. आत्मा वै नाकसदः । माश ८, , , १२; १३ ।।

२. तद्यदेतस्मिन्नाके स्वर्गे लोके देवा असीदंस्तस्माद्देवा नाकसदः । माश ८,,,१ । ३.. तद्या अमुष्मादादित्यादर्वाच्यः पञ्चदिशस्ता नाकसदः । माश ८, , , १४ ।। ४. न वा अमुं लोकं जग्मुषे किंचनाकं तन्नाकसदां नाकसत्त्वम् । काठ २१,; क ३१,१७ ।।

५. य ऽ इमे चत्वार ऋत्विजो गृहपतिपञ्चमास्ते नाकसदः । माश ८, , , ११ । ६. यद् ( विश्वेदेवाः ) अब्रुवन् न सदाम वै स्वर्गे लोके नाक इति तन्नाकसदां नाकसत्त्वम् । जै २, २१० ।

७. यन्नाके स्वर्गे लोके ( देवाः) व्यवास्यंस्तन्नाकसदां नाकसत्त्वम् । जै २,२०७।

सो ऽब्रवीन् न वै म इदम् अकम् अभूद् इति। यद् अब्रवीन् न वै म इदम् अकम् अभूद् इति तन् नाकस्य नाकत्वम्। स एष वाव नाको यद् दशमम् अहर्, एष स्वर्गो लोक, एतद् ब्रध्नस्य विष्टपम्॥जै 3.345

यस्तु वै पाण्डुरो वक्त्रे ललाटे पादयोस्तथा ।
लाङ्गूले यस्तु वै शुभ्रः स वै नाकस्य दर्शकः ॥ ९७.१७० ॥
नीलोऽयमीदृशः प्रोक्तो यस्तु द्वीपेश्वरे त्यजेत् ।
स समाः रोमसंख्याता नाके वसति भारत ॥स्कन्द ५.३.९७.१७१

नाकस्य शकुनिः पत्नी विघ्नस्य च अयो मुखी ।
राक्षसास्तु महावीर्याः संध्याद्वयविचारिणः ॥ब्रह्माण्डपु. .३.५९.१३

नाक्र- वरुणाय नाक्रान् (आलभते ) । मै ३, १४, २।