पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

देवहूति

अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः।

इमं स्तोमं जुषस्व नः॥ १.०१२.१२

उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः।

शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः॥ ३.०१३.०६

दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः।

एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना॥ ६.०३८.०२

अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः।

अवन्तु मा पर्वतासो ध्रुवासोऽवन्तु मा पितरो देवहूतौ॥ ६.०५२.०४

इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति।

व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः॥ ६.०६५.०५

जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार।

घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूँरमित्रान्पृत्सु साहन्॥ ६.०७३.०२

समिधा जातवेदसे देवाय देवहूतिभिः ।

हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥१॥

वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र ।

वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे ॥२॥

आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः ।

तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः ॥ऋ. ७.१४.३

दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः।

सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन्देवहूतिषु॥ ७.०८३.०७

देवहूतयो यज्ञाः

स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति।

युवं ताँ इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः॥ ७.०८५.०२

तत्तदग्निर्वयो दधे यथायथा कृपण्यति।

ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे॥ ८.०३९.०४

यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते।

वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे॥ ८.०५३.०७

युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिव।

नि होता पूर्व्यः सदः॥ ८.०७५.०१

त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम्।

अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये॥ ९.०६८.०७

इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य।

प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः॥ १०.०१८.०३

पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।
न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः ॥१०.४४.

साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् ।

स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥१०.५३.३

विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः।

सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये॥ १०.०६३.११

मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः।

दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः॥ १०.१२८.०३

मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः ।

दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः ॥शौअ ५.३.

सविता प्रसवानामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥

अग्निर्वनस्पतीनामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥

द्यावापृथिवी दातॄणामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥

वरुणोऽपामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥

मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥

मरुतः पर्वतानामधिपतयस्ते मावन्तु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥

सोमो वीरुधामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥

वायुरन्तरिक्षस्याधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥

सूर्यश्चक्षुषामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥

चन्द्रमा नक्षत्राणामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥

इन्द्रो दिवोऽधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥

मरुतां पिता पशूनामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥

मृत्युः प्रजानामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥

यमः पितॄणामधिपतिः स मावतु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥

पितरः परे ते मावन्तु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥

तता अवरे ते मावन्तु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम्

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥

ततस्ततामहास्ते मावन्तु ।

अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।

चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५.२४.१७

सोदक्रामत्साहवनीये न्यक्रामत्।
यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥
शौअ. ८.१०.

इमे जीवा वि मृतैराववृत्रन्न् अभूद्भद्रा देवहूतिर्नो अद्य ।

प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥१२.२.२२

जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार ।

घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन् ॥२०.९०.

यस् ते साधिष्ठो अवसे ते स्याम भरेषु ते ।
वीतिहोत्राभिर् उत देव हूतिभिस् ससवांसो विशृण्विरे । खिल ३.५.७

आजिपते नृपते त्वम् इद् धि नो वाजाभक्षि सुक्रतो ।
वयम् होत्राभिर् उत देव हूतिभिस् ससवांसो मनामहे । खिल ३.६.६

इन्द्रो मरुत्वान् इह श्रवद् इह सोमस्य पिबतु ।
प्रेमान् देवो देव हूतिम् अवतु देव्या धिया ।
प्रेदम् ब्रह्म ।
प्रेदम् क्षत्रम् ।
प्रेमम् सुन्वन्तम् यजमानम् अवतु ।
चित्रश् चित्राभिर् ऊतिभिः ।
श्रवद् ब्रह्माण्य् आवसा गमत् ॥खिल ५.५.२-११

इमे जीवा वि मृतैराववर्तिन्नभूद्भद्रा देवहूतिं नो अद्य । प्राञ्जोऽगामा नृतये हसाय द्रघीय आयुः प्रतरां दधानाः, इति । - तैआ. ६.१०.२

ईडितो देवो देवाँ-आ वक्षद्दूतो हव्यवाडमूर उपेमं यज्ञमुपेमां देवो देवहूतिं वेत्वाज्यस्य होतर्यज  - काठ.सं. १५.१३

देवा यन्तु सुमनस्यमाना इत्येता वै देवानां देवहूतयो यन्त्यस्य देवा देवहूतिं न यज्ञाच्छिद्यते य एवं वेद – काठकसं ३१.१५

 66देवजूते विवस्वन्नादित्य ते नो देवाः सत्यां देवहूतिं देवेष्वासुवध्वं , आदित्येभ्यः स्वाहा ॥ - मैसं. १.७.१

यो वै बृहद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्। ऊर्ध्वा वै रथन्तरस्य देवहूतिर् अर्वाची बृहतः। तद् यद् रथन्तरस्यर्चैवापरिष्टुभ्योर्ध्वम् इव प्रस्तौति तस्माद् अयम् ऊर्ध्वो लोक ऊर्ध्वो ऽयम् अग्निर् दीप्यत ऊर्ध्वा ओषधय ऊर्ध्वा वनस्पतयस् सर्वम् एवोर्ध्वम्। अथ यस्माद् बृहतस् स्तोभेन परिष्टुभ्यौ हो इत्य् अर्वाङ् प्रस्तौति तस्माद् असाव् अर्वाङ् लोको ऽर्वाङ् असाव् आदित्यस् तपत्य् अर्वाङ् चन्द्रमा अर्वाञ्चि नक्षत्राण्य् अर्वाची वृष्टिर् एति सर्वम् एवार्वाक्। स य एवम् एते बृद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्॥जैब्रा. 1.296

इन्द्रो मरुत्वान्सोमस्य पिबतु । मरुत्स्तोत्रो मरुद्गणः । ...  प्रेमां देवो देवहूतिमवतु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् ।- शां.श्रौ.सू. ८.१६

द्यावापृथिवी सोमस्य मत्सताम् । पिता च माता च । धेनुश्च ऋषभश्च ।....  प्रेमां दवी देवहूतिमवतां देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । - शां.श्रौ.सू. ८.१९

ऋभवो देवाः सोमस्य मत्सन् । विष्ट्वी स्वपसः । कर्मणा सुहस्ताः ।...  प्रेमां देवा देवहूतिमवन्तु देव्या धिया । प्रेदं ब्रह्म प्रेदं क्षत्रम् । - शां.श्रौ.सू. ८.२०

विश्वे देवास्त्रयस्त्रंशास्त्रिरेकादशिन उत्तरोत्तरवर्त्मान उत्तरसत्वानो विश्वे वैश्वानरा विश्वे विश्वमहस इह मावतास्मिन्ब्रह्मण्यस्मिन्क्षत्रेऽस्मिन्कर्मण्यस्यामाशिष्यस्यां प्रतिष्ठायामस्यां देवहूत्यामयं मे कामः समृध्यतां स्वाहेति यत्कामो भवति शां.श्रौ.सू. ४.१०.

हविर्निर्वापः - त्वं देवानां असि सस्नितमम् पप्रितमं जुष्टतमं वह्नितमं देवहूतमम् अह्रुतम् असि हविर्धानम् । - तैसं. १.१.४.१

साध्वीम् अकर् देववीतिं नो अद्य यज्ञस्य जिह्वाम् अविदाम गुह्याम् । स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥ - तैसं. १.३.१४.२

संवर्गेष्टिहौत्रम् - युक्ष्वा हि देवहूतमा अश्वा अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥ -- तैसं. २.६.११.१

इडा देवहूर् मनुर् यज्ञनीः । - तैसं. ३.३.२.१

अभ्यातानाः - ... सोम ओषधीना सविता प्रसवाना रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानाम् मरुतो गणानाम् अधिपतयस् ते मावन्तु पितरः पितामहाः परे ऽवरे ततास् ततामहा इह मावत । अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥ - तैसं ३.४.५.१

स्वयमातृण्णादीष्टकोपधानम् - युक्ष्वा हि देवहूतमा अश्वा अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥ - तैसं. ४.२.९.५

विहव्या इष्टकाः -- मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः ।... मह्यं यजन्तु मम यानि हव्याऽऽकूतिः सत्या मनसो मे अस्तु । - तैसं. ४.७.१४.१

अपानभृत इष्टकाः - ऊर्ध्वा दिशा हेमन्तशिशिराव् ऋतूनाम् बृहस्पतिर् देवता वर्चो द्रविणं त्रिणव स्तोमः स उ त्रयस्त्रिशवर्तनिः पष्ठवाद् वयो ऽभिभूर् अयानां विष्वग्वातो वातः सुपर्ण ऋषिः पितरः पितामहाः परे ऽवरे ते नः पान्तु ते नो ऽवन्त्व् अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥ - तैसं ४.३.३.२

उखाहोमादेरभिधानम् - यजुषा वा एषा क्रियते यजुषा पच्यते यजुषा वि मुच्यते यद् उखा सा वा एषैतर्हि यातयाम्नी सा न पुनः प्रयुज्येत्य् आहुः । अग्ने युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमा इत्य् उखायां जुहोति तेनैवैनाम् पुनः प्र युङ्क्ते तेनायातयाम्नी – तैसं. ५.५.३.१

अथ जघनेन कस्तम्भीमीषामभिमृश्य जपति । देवानामसि वह्नितमं सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् । ह्रुतमसि हविर्धानं दृंहस्व – माश १.१.२.१२

ते वा एत ऋतवः । देवाः पितरः स यो हैवं विद्वान्देवाः पितर इति ह्वयत्या हास्य देवा देवहूयं गच्छन्त्या पितरः पितृहूयमवन्ति हैनं देवा देवहूयेऽवन्ति पितरः पितृहूये य एवं विद्वान्देवाः पितर इति ह्वयति - २.१.३.२

अग्ने युक्ष्वा हि ये तव । युक्ष्वा हि देवहूतमानिति युक्तवतीभ्यामिदमेवैतद्योनौ रेतो युनक्ति तस्माद्योनौ रेतो युक्तं न निष्पद्यते - ७.५.१.३३

र्देवहूर्यज्ञ आ च वक्षत्सुम्नहूर्यज्ञ आ च वक्षदिति देवहूश्चैव यज्ञः सुम्नहूश्च यक्षदग्निर्देवो देवां आ च वक्षदिति – माश ९.२.३.२०

मित्रविन्दा इष्टिः - उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः । शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातम इति - ११.४.३.१९

युक्ष्वा हि देवहूतमाँ अश्वाँ अग्ने रथीरिवेति  तृतीयस्याह्न आज्यम्भवति देवा वै तृतीयेनाह्ना स्वर्गं लोकमायंस्तानसुरा रक्षांस्यन्ववारयन्त ते विरूपा भवत विरूपा भवतेति भवन्त आयंस्ते यद्विरूपा भवत विरूपा भवतेति भवन्त आयंस्तद्वैरूपं सामाभवत् ऐब्रा ५.१

त्वं नृभिर्नृपते देवहूतौ भूरीणि वृत्वा हर्यश्व ह सि । - तैब्रा. २.५.८.१०

त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममित्याह । यथायजुरेवैतत् तैब्रा. ३.२.४.

उपेमं यज्ञमुपेमां देवो देवहूतिमवतु वेत्वाज्यस्य होतर्यज । - तैब्रा. ३.६.२.१