पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

द्वित

ऋग्वेदे य्रत्र द्विता शब्दः अस्ति, तस्य सायणभाष्यं द्युलोक - भूमि, आहवनीय - गार्हपत्य आदि अपि कृतमस्ति। ब्राह्मणग्रन्थेषु कथनमस्ति यत् पुराकाले द्युलोकः एवं पृथिवी न पृथकौ आस्ताम्। तदा तपसा तौ  पृथकौ आसाम्, तयोः मध्ये अन्तरिक्षस्य सृष्टिरभूत्। अयं प्रतीयते यत् यदा द्यावापृथिव्यौ सहास्ताम्, तत् एकतस्य स्थितिः अस्ति। लोके जनाः मन्यन्ते न अस्मात् लोकात् कोपि लोकः अस्ति। अयं मान्यता एकतस्य अस्ति। अन्ये जनाः मन्यन्ते यत् अस्मात् लोकात् परतरः अपि किंचिदस्ति। तत् द्वितस्य धारणा कथितुं शक्यन्ते। अन्ये जनाः सन्ति ये इहलोकस्य एवं परलोकस्य मेलनेन रामराज्यस्य स्थापनाय प्रयत्नं कुर्वन्ति। ते जनाः त्रितसंज्ञकाः भवितुं शक्यन्ते।(वैदिकवाङ्मये त्रितस्य आख्याने त्रितः कूपे वसमानः यज्ञस्य सत्यधारणां कर्तुं समर्थः भवति।)। त्रित अर्थात् त्रेता। द्वित अर्थात् द्वापरः। कलि अर्थात् एकत। वैदिक कर्मकाण्डे अग्नित्रय्याः अस्तित्वं भवति गार्हपत्य, दक्षिणाग्नि एवं आहवनीयः ।

वैदिकवाङ्मये एकः सूत्रः वर्तते- ईश्वरः तदधीनेषु बालिशेषु द्विषत्सु च। प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः॥ (भागवतपुराणम् )। किमयं सूत्रं एकत, द्वित, त्रितोपरि अपि सत्यमस्ति, अन्वेषणीयः। आधुनिकविज्ञाने प्रेम्णः मापनं क्वाण्टम एण्टेंगलमेंट माध्यमे भवति। यदा वस्तुद्वयोः मध्ये प्रेम्णः आधिक्यं भवति, तदा कालस्य अस्तित्वं न भवति।

 

 

स्थिरं हि जानमेषां वयो मातुर्निरेतवे।

यत्सीमनु द्विता शवः॥ १.०३७.०९

यत् यस्मात् कारणात् शवः भवदीयं बलम् अनुक्रमेण सीं सर्वतः द्विता द्वित्वेन द्यावापृथिव्योर्विभज्य वर्तते । 

द्विता वि वव्रे सनजा सनीळे अयास्यः स्तवमानेभिरर्कैः।

भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः॥ १.०६२.०७

एवंविधे द्यावापृथिव्यौ द्विता द्विधा "वि वव्रे विवृते अकरोत् भेदेनास्थापयदित्यर्थः ।

द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः। १.१२७.७

यत् यं द्विता द्वित्वमापन्नं द्विप्रकारं श्रौतस्मार्तभेदेन द्वित्वमापन्नम् । यद्वा । उपलक्षणमेतत्। आहवनीयादिरूपेण नानाविधम् । यद्वा । द्विता द्विविधाय ऐहिकामुष्मिकफलाय उभयाय । विभक्तेः आजादेशः ।

वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः।

स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः॥ १.१३२.०३

अध अतः कारणात् द्वितान्तः द्वित्वोपेतयोः द्यावापृथिव्योर्मध्ये अन्तरिक्षे रश्मिभिः आदित्यकिरणैः पश्यन्ति । मेघं निर्भिद्य रश्मिद्वारा प्रवर्षणरूपं कर्म सर्वे जनाः प्रत्यक्षतः पश्यन्ति ।

इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः।

एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः॥ २.००४.०२

अपां सधस्थे सहस्थाने अन्तरिक्षे आयोः मनुष्यस्य यजमानस्य स्वभूतासु विक्षु प्रजास्वृत्विक्षु तेषां मध्ये च द्विता द्वयोः स्थानात् अदधुः अधारयन् ।। 

वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि।

द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति॥ ३.००२.०१

द्विता द्विधा गार्हपत्याहवनीयरूपाभ्यां युक्तं होतारं देवानामाह्वातारमग्निं

आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु।

प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः॥ ३.०४३.०६

 सर्वा दिशः द्विता । द्विधा यथा भवति तथा प्र ऋञ्जन्ति प्रकर्षेण साधयन्ति ।।

यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम्।

इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः॥ ३.०४९.०२

द्विता युद्धमासाद्य सेनां द्विधा कृत्वा वर्तमानं यम् इन्द्रं 

मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः।

क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः॥ ४.०४२.०१

मम इत्यात्मनो निर्देशः । द्विता क्षितिस्वर्गभेदेन द्वित्वापन्नं राष्ट्रम् । 

द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना।

इन्दुं स धत्त आनुषक्स्तोता चित्ते अमर्त्य॥ ५.०१८.०२

हे अग्ने "द्विताय द्वितपुत्राय मृक्तवाहसे। मृक्तं शुद्धं हविर्देवेभ्यो वहति प्रापयतीति मृक्तवाहाः ।

त्वामीळे अध द्विता भरतो वाजिभिः शुनम्।

ईजे यज्ञेषु यज्ञियम्॥ ६.०१६.०४

तद्वद्भिः ऋत्विग्भिः सह "द्विता द्विविधमिष्टप्राप्त्यनिष्टपरिहाररूपेण द्विधा भिन्नं शुनं सुखमुद्दिश्य "ईळे स्तुतवान्। 

यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता।

वीरस्य पृतनाषहः॥ ६.०४५.०८

यस्य इन्द्रस्य हस्तयोः बाह्रोः विश्वानि सर्वाणि द्विता दिव्यपार्थिवरूपेण द्वैधं वर्तमानानि वसूनि विद्यन्ते

भरद्वाजायाव धुक्षत द्विता।

धेनुं च विश्वदोहसमिषं च विश्वभोजसम्॥ ६.०४८.१३

हे मरुतः भरद्वाजाय अस्मद्भ्रात्रे द्विता द्वितयम् अव धुक्षत । किं तत् द्वितयम् । धेनुं च गां च इषं च अन्नं च ।

एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते।

प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात्॥ ७.०२८.०४

"मायी प्रज्ञावान् "वरुणः "यत् "अनृतं "नः अस्मासु प्रति चष्टे अभिपश्यति तदनृतं हे इन्द्र त्वत्प्रसादात् "द्विता द्विधा अव सात् अवस्यतु विमोचयतु । 

धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी।

प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम॥ ७.०८६.०१

 यश्च बृहन्तं महान्तं नाकम् "आदित्यं नक्षत्रं च ऋष्वं दर्शनीयं द्विता द्वैधं प्र नुनुदे प्रेरयति स्म । अहनि सूर्यं दर्शनीयं प्रेरयति रात्रौ नक्षत्रं तथेति द्विप्रकारः । 

त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक्।

त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः॥ ८.००१.२८

हे इन्द्र त्वं यत् यदा द्विता द्विधा द्विविधैः स्तोतृभिर्यष्टृभिश्च हव्यः ह्वातव्यः भुवः भवेः ।

तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः।

नि बर्हिषि प्रिये सददध द्विता॥ ८.०१३.२४

अध अनन्तरं द्विता द्वैधं वर्तमानानि चरुपुरोडाशादीनि सोमलक्षणानि च हवींषि स्वीकरोत्विति शेषः ।

तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने।

द्विता कुत्साय शिश्नथो नि चोदय॥ ८.०२४.२५

 ”कुत्साय कुत्सनामकाय राजर्षये द्विता द्विधा द्विप्रकारेण शिश्नथः त्वं शत्रूनवधीः ।

ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन्।

विदन्नह द्वितासनन्॥ ८.०२८.०१

ततः "द्विता द्विधा द्विप्रकारम् "असनन् अस्मभ्यं धनं पश्वादिकं च प्रयच्छन्तु ।

तदन्नाय तदपसे तं भागमुपसेदुषे।

त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुतयो व ऊतयः॥ ८.०४७.१६

 तादृशाय देवाय "तं भागं दुःस्वप्नस्यांशम् "उपसेदुषे प्राप्नुवते त्रिताय "द्विताय च हे "उषः देवि दुष्वप्न्यम् अन्नकर्मविषयं वह अन्यत्र प्रापय । स्वप्ने दृष्टं मधुभोजनादिकं जाग्रदवस्थानुभूतवत् सुखकरं भवत्वित्यर्थः ॥

इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि।

हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः॥ ८.०७०.०२

तव शत्रून् हन्तुमुग्रत्वं त्वदनुग्रहायानौग्र्यं चेति द्वैतमस्ति ।

अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम्।

द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि॥ ८.०७१.११

मनुष्येषु चाभूत् अभवदित्येवं द्विता द्वैधं भवति । देवेष्वमृतत्वमस्य प्रसिद्धं मनुष्येषु कीदृशोऽभूदिति उच्यते ।...मर्त्येषु सामान्येन दाहपाकादिसाधनोऽभवदित्येतत् प्रसिद्धं

प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या।

मातुर्गर्भे भरामहे॥ ८.०८३.०८

पूर्वं सर्वेषां देवानां सांहत्येन ततः "द्विता द्विधा द्विप्रकारेण च "मातुः अदितेः "गर्भे संजातं यद्युष्माकं भ्रातृत्वं विद्यते 

कविमिव प्रचेतसं यं देवासो अध द्विता।

नि मर्त्येष्वादधुः॥ ८.०८४.०२

"देवासः देवा इन्द्रादयः "यम् अग्निं "मर्त्येषु मनुष्येषु "द्विता द्विधा "नि आदधुः गार्हपत्याहवनीयात्मकत्वेन 

द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः।

उप नो हरिभिः सुतम्॥ ८.०९३.३२

यः इन्द्रः द्विता द्विधा विदे वृत्रवधादावुग्रकर्मा जगद्रक्षणकाले शान्तकर्मेति

द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त।

धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम्॥ ९.०९४.०२

अमृतस्य उदकस्य धाम धारकं स्थानमन्तरिक्षं सोमः द्विता द्विधा व्यूर्ण्वन् उभयतः स्वतेजसाच्छादयन् मध्येन गच्छति ।

पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम्।

द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः॥ ९.०९७.२४

ईदृशः सोमः द्विता द्विधा देवेष्वपि च मनुष्येषु भुवत् भवति । 

क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम्।

विश्वा परि प्रिया भुवदध द्विता॥ ९.१०२.०१

प्र पुनानाय वेधसे सोमाय वच उद्यतम् ।
भृतिं न भरा मतिभिर्जुजोषते ॥९.१०३. ऋ. द्वित आप्त्यः

सोम अध अपि च "द्विता द्विधा भवति । दिवि च पृथिव्यां च वर्तत इत्यर्थः ॥

प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता।

दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम्॥ १०.०४८.०९

तं मत्स्तोतारं मनुष्याः गवामेषे अन्वेषणाय सख्या सख्याय च द्विता द्विविधं द्विप्रकाराय कृणुत कृण्वन्ति ।