PURAANIC SUBJECT INDEX

(From Nala to Nyuuha )

Radha Gupta, Suman Agarwal & Vipin Kumar

HOME PAGE


Nala - Nalini( words like  Nala, Nalakuubara, Nalini etc.)

Nava - Naaga ( Nava, Navaneeta / butter, Navami / 9th day, Navaratha, Navaraatra, Nahusha, Naaka, Naaga / serpent  etc.)

Naaga - Naagamati ( Naaga / serpent etc.)

Naagamati - Naabhi  ( Naagara, Naagavati, Naagaveethi, Naataka / play, Naadi / pulse, Naadijangha, Naatha, Naada, Naapita / barber, Naabhaaga, Naabhi / center etc. )

Naama - Naarada (Naama / name, Naarada etc.)

Naarada - Naaraayana (  Naarada - Parvata, Naaraayana etc.)

Naaraayani - Nikshubhaa ( Naaraayani, Naarikela / coconut, Naaree / Nari / lady, Naasatya, Naastika / atheist, Nikumbha, Nikshubhaa  etc.)

Nigada - Nimi  ( Nigama, Nitya-karma / daily ablutions, Nidhaagha, Nidra / sleep, Nidhi / wealth, Nimi etc.)

Nimi - Nirukta ( Nimi, Nimesha, Nimba, Niyati / providence, Niyama / law, Niranjana, Nirukta / etymology etc. )

 Nirodha - Nivritti ( Nirriti, Nirvaana / Nirvana, Nivaatakavacha, Nivritti etc. )

Nivesha - Neeti  (Nishaa / night, Nishaakara, Nishumbha, Nishadha, Nishaada, Neeti / policy etc. )

Neepa - Neelapataakaa (  Neepa, Neeraajana, Neela, Neelakantha etc.)

Neelamaadhava - Nrisimha ( Neelalohita, Nriga, Nritta, Nrisimha etc.)

Nrihara - Nairrita ( Nrisimha, Netra / eye, Nepaala, Nemi / circumference, Neshtaa, Naimishaaranya, Nairrita etc.)

Naila - Nyaaya ( Naivedya, Naishadha, Naukaa / boat, Nyagrodha, Nyaaya etc.)

Nyaasa - Nyuuha ( Nyaasa etc. )

 

 

नृसिंह/ नरसिंह

 

पुराणेषु सार्वत्रिकरूपेण आख्यानमस्ति यत् हिरण्यकशिपु असुरः स्वपुत्रस्य प्रह्लादस्य विष्णुभक्तितः असंतुष्टः अस्ति येन कारणेन सः प्रह्लादस्य वधाय चेष्टति। तदा विष्णुः नृसिंहरूपं धारयित्वा अवतरति एवं हिरण्यकशिपुं स्वऊरोरुपरि धारयित्वा स्वनखेभिः तस्य उदरं पाटयति। अस्मिन् आख्याने हिरण्यकशिपुः किं भवति। अथर्ववेदे ५.७.१० कथनमस्ति –

या महती महोन्माना विश्वा आशा व्यानशे ।
तस्यै हिरण्यकेश्यै निर्ऋत्या अकरं नमः ॥९॥
हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही ।
तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥१०॥

अत्र कथनमस्ति यत् या पापस्य देवी निर्ऋतिः अस्ति, तस्याः कल्याणकारकं स्वरूपं हिरण्यकशिपुः अस्ति। वैदिकवाङ्मये कशिपुः आसनस्य संज्ञा भवति। हिरण्यकशिपुः अर्थात् स्वर्णमयं आसनम्। अनुमानमस्ति यत् अयं प्रकरणं हृदयस्य परितः ये हिता नाड्यः भवन्ति, तस्य अस्ति। कथनमस्ति यत् रात्रिकाले प्राणः हृदयगुहायां स्वपिति। अनन्तरं हृदयस्य परितः ये हिता नाड्यः भवन्ति, तेषु विश्रमति, येन कारणेन नरः स्वप्नं पश्यति। एतेषां नाडीनां शोधनस्य आवश्यकता भवति। अत्र अनुमानमस्ति यत् शोधनानन्तरं एता नाड्यः हिरण्यकशिपोः रूपं धारयन्ति। ब्रह्माण्डपुराणे२.३.५.४ एवं वायुपुराणे ६७.५० कथनमस्ति यत् कश्यपस्य अतिरात्रसंज्ञके यागे हिरण्यकशिपोः जन्मः अभवत् एवं जन्मानन्तरं सः होतृसंज्ञकस्य ऋत्विजस्य आसने आरूढः अभवत्। अतिरात्रसंज्ञकस्य यागस्य किमुद्देश्यं संभवमस्ति। सामान्यनिद्रायां मनुष्यस्य स्वदेहोपरि नियन्त्रणं न भवति। यदि केनापि प्रकारेण निद्रायाः प्रकृतिः अयं भवेत् यत् स्वापकालेपि जाग्रतवत् अवस्था भवति, तत् अपेक्षितमस्ति। वैदिकवाङ्मये केचन उल्लेखाः सन्ति यत्र होता ऋत्विक् हिरण्यकशिपोः उपयोगः आसनरूपेण करोति। अश्वमेधे एकः पारिप्लवआख्यानसंज्ञकः कृत्यः अस्ति यत्र होत्रादयः ऋत्विजः हिरण्मयीषु कशिपुषु आसीनाः भवन्ति एवं परस्परसंवादं कुर्वन्ति(शांखायनब्राह्मणे २०.१ पारिप्लवस्य विवेचनमस्ति)।

हिरण्यकशिपोः प्रह्लादस्य सार्धं किं सम्बन्धः अस्ति। अनुमानमस्ति यत् हिरण्यकशिपुनः अवस्था हृदये आह्लादस्य जननं करोति यस्य संज्ञा प्रह्लादः अस्ति। बृहत्पाराशरहोराशास्त्रे २.५ कथनमस्ति –

रामोऽवतारः सूर्यस्य चन्द्रस्य यदुनायकः।

नृसिंहो भूमिपुत्रस्य बुद्धः सोमसुतस्य च॥

 

अत्र कथनमस्ति यत् मंगलग्रहः नृसिंहअवतारस्य रूपमस्ति। कल्याण ज्योतिषतत्त्वांके पृष्ठ ३७१ उपरि ग्रहाणां षट्चक्रानुसारेण वर्गीकरणं अस्ति यस्यानुसारेण मंगलग्रहस्य आधिपत्यं हृदयस्य अनाहतचक्रोपरि अस्ति।

नृसिंह अथवा नरसिंह संज्ञा कस्य प्रतीकमस्ति। एकः नरः अस्ति यस्य संदर्भे भविष्यपुराण १.२.१२९  आदिषु कथनमस्ति –

भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । । १२९
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । । 

पुराणेषु सार्वत्रिकरूपेण नर-नारायणस्य माहात्म्यं वर्णितमस्ति। भविष्यपुराणे नरस्य सर्वोच्चस्थितिः ब्रह्मवेत्ता कथितमस्ति। नारायणोपि ब्रह्मवेत्ता अस्ति। यः ब्रह्मवेत्ता अथवा नारायणः अस्ति, सः कारणस्वरूपः अस्ति, नरः कार्यस्वरूपः। नारायणः शान्ततमः स्थितिः अस्ति। नर एवं नारायण मध्ये बहवः स्थितयः सन्ति ये अशान्ताः सन्ति। सिंहः तेषु एका अस्ति।

नृसिंहः हिरण्यकशिपोः उदरस्य दारणं स्वऊरोरुपरि करोति। अनाहतचक्रतः ये अवराः चक्राः सन्ति, तेषां नामधेयं मूलाधारः, स्वाधिष्ठानः(शिश्नः), मणिपूरः(नाभिः) अस्ति। लक्ष्मीनारायणसंहितायां ३.२२ नरमेधस्य संदर्भे कथनमस्ति यत् नरमेधे नरस्य वृषणयोः कर्तनं अभवत्, तदा अशान्त्याः जननं अभवत्। शान्त्याः स्थापनं तदैव अभवत् यदा वृषणयोः रूपान्तरणं शालग्रामशिलारूपे अभवत्। अयं संकेतमस्ति यत् नरस्य वृषणौ देहे यस्य शुक्रस्य वृष्टिं कुर्वन्ति, तत् पर्याप्तं नास्ति।

कथासरित्सागरे८.७.४८ उल्लेखः अस्ति यत् हिरण्यकशिपुः जन्मान्तरे कपिञ्जलरूपे जन्मं गृह्णाति। कपिञ्जलः सुरा एवं सोमस्य संधिअवस्था भवति।

लक्ष्मीनारायणसंहितायां  २.२२.२२ अरण्ये नृसिंहतीर्थस्य श्रेष्ठतायाःउल्लेखमस्ति - पर्वते बदरीतीर्थं चारण्ये नारसिंहकम् ।

ताण्ड्यब्राह्मण१९.६.१आदिकाकथनहैकिपशुषोडशकलाओंसेयुक्तहोतेहैं।उक्थषोडशिमान्होताहै।षोडशीरूपीवज्रसेपशुओंकापरिग्रहणकियाजाताहैजिससेवहभागनजाएं।इससंदर्भसेऐसाभीप्रतीतहोताहैकिउक्थ्यवषोडशीसेकेवलग्राम्यपशुओंकापरिग्रहणसंभवहोपाताहै, आरण्यकपशुओंकानहीं।आरण्यकपशुओंकेपरिग्रहणकेलिएषोडशीसेअगलेचरणअतिरात्रकीआवश्यकताहोतीहै।