पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From vowel Ekapaatalaa to Ah)

Radha Gupta, Suman Agarwal and Vipin Kumar

Home Page

Ekapaatalaa - Ekashruta (  Ekalavya etc.)

Ekashringa - Ekaadashi ( Ekashringa, Ekaadashi etc.)

Ekaananshaa - Airaavata (  Ekaananshaa, Ekaamra, Erandi, Aitareya, Airaavata etc.)  

Airaavatee - Odana  ( Aishwarya, Omkara, Oja etc.)

Oshadhi - Ah ( Oshadhi/herb, Oudumbari, Ourva etc.)

 

 

 

*ययोरोजसा स्कभिता रजांसि यो वीर्यैर्वीरतमा शविष्ठा । यो पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥ - अ.७.२६.१

*ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् । एष मा तस्मान्मा हिंसीद् वेदः पृष्टः शचीपते ॥ - अ.७.५७.२

*इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनममित्रायन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥ - अ.७.८९.२

*अपि वृश्च पुराणवद् व्रततेरिव गुष्पितम् । ओजो दास्यस्य दम्भय ॥ - अ.७.९५.१

*अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः । ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥ - अ.८.५.४

*अयमिद् वै प्रतीवर्त ओजस्वान् संजयो मणिः । प्रजां धनं च रक्षतु परिपाणः सुमङ्गले: ॥ - अ.८.५.१६

*साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा । रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥ विश्वेदेवा उपरिष्टादुब्जन्तो यन्त्वोजसा । मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥ - अ.८.८.१२-१३

*यथा मक्षा इदं मधु न्यञ्जन्ति मधावधि । एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥ - अ.९.१.१७

*इन्द्रस्योजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत् । - अ.९.४.८

*अरात्यास्त्वा निर्ऋत्या अभिचारादथो भयात् । मृत्योरोजीयसो वधाद् वरणो वारयिष्यते ॥ - अ.१०.३.७

*इमं बिभर्मि वरणमायुष्मान्छतशारदः । स मे राष्ट्रं च क्षत्रं च पशूनोजश्च मे दधत् ॥ यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा । एवा सपत्नान् मे भङ्ग्धि पूर्वान् जाताf उतापरान् वरणस्त्वाभि रक्षतु ॥ - अ.१०.३.१२-१३

*इन्द्रस्योज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ । जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥ - - - -- - - - -- - - - -अ.१०.५.१-६

*अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः । अपि वृश्चाम्योजसा ॥ - अ.१०.६.१

*यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चचुतमुग्रं खदिरमोजसे । तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् । सो अस्मै बलमिद् दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥ - अ.१०.६.६

*यमबध्नाद् बृहस्पतिर्मणिं फालं घृतश्चnतमुग्रं खदिरमोजसे । - - - - -- - - अ.१०.६.७-१०

*समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः । संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥ - अ.११.७.१८

*स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत् । बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥ - अ.११.८.२०

*बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् । तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥ - अ.११.१२.१३

*ओजश्च तेजश्च सहश्च बलं च वाक् चेन्द्रियं चे श्रीश्च धर्मश्च ।-- - - - - - - -तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥ - अ.१२.६.७

*पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् । आयुर्जीवेभ्यो विदधद् दीर्घायुत्वाय शतशारदाय ॥ - अ.१८.४.५३

*इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् । ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । - अ.१९.१३.६

*त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत् ॥ - अ.१९.३३.३

*ओजो देवानां बलमुग्रमेतत् तं ते बध्नामि जरसे स्वस्तये ॥ - अ.१९.३३.४

*स जङ्गिडस्य महिमा परि णः पातु विश्वतः । विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥ - अ.१९.३४.५

*उग्र इत् ते वनस्पत इन्द्र ओज्मानमा दधौ । अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥ - अ.१९.३४.९

*इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् । त्रयस्त्रिंशद् यानि च वीर्याणि तान्यग्निः प्र ददातु मे ॥ वर्च आ धेहि मे तन्वां३ सह ओजो वयो बलम् । इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥ ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा । अभिभूयाय त्वा राष्ट}भृत्याय पर्यूहामि  शतशारदाय ॥ - अ.१९.३७.१-३

*भद्रमिच्छन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे । ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु ॥ - अ.१९.४१.१

*अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः ॥ - अ.१९.४२.४

*त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते । त्वमुग्र: पृतनासु सासहि: सह ओजो यजमानाय धेहि । - अ.१९.५२.२

*ऊर्वोरोजो जङ्घयोर्जवः पादयोः । प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥ - अ.१९.६०.२

*इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा । वृत्राणि वृत्रहं जहि ॥ - अ.२०.५.३

*युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा । - अ.२०.२१.७

*मही चिद्धि धिषणा हर्यदोजसा बृहद् वयो दधिषे हर्यतश्चिदा । - अ.२०.३१.५

*ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥ - अ.२०.३४.११

*उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः । सोममिन्द्र चमू सुतम् ॥ - अ.२०.४२.३

*इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । द्युम्नी श्लोकी स सोम्यः ॥ - अ.२०.४७.२

*क इवेद सुते सचा पिबन्तं कद् वयो दधे । अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥ - अ.२०.५३.१

*नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥ - अ.२०.५३.२

*क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥ - अ.२०.५४.१

*स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥ - अ.२०.५४.२

*अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥ - अ.२०.५७.११

*नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥ - अ.२०.५७.१२

*श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥ - अ.२०.५८.१

*एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः । - २०.६७.६

*वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा । ईशानो अप्रतिष्कुतः ॥ - अ.२०.७०.१४

*इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः । महाँ अभिष्टिरोजसा ॥ - अ.२०.७१.७

*इन्द्र ज्येष्ठं न आ भरँ ओजिष्ठं पपुरि श्रवः । येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥ - अ.२०.८०.१

*त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः । उद् द्यामस्तभ्ना ओजसा ॥ त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः । वज्रं शिशान ओजसा ॥ त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा । स विश्वा भुव आभवः ॥ - अ.२०.९३.६-८

*ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥ - अ.२०.९४.४

*ओजस्तदस्य तित्विष उभे यत् समवर्तयत् । इन्द्रश्चर्मेव रोदसी ॥ - अ.२०.१०७.२

*त्वं न इन्द्रा भरँ ओजो नृम्णं शतक्रतो विचर्षणे । आ वीरं पृतनाषहम् ॥ - अ.२०.१०८.१

*इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् । वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥ - अ.२०.१३७.५

*त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ । - अ.२०.१३७.११

*इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः । द्युम्नी श्लोकी स सोम्यः ॥ - अ.२०.१३७.१३

*महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव । स्तोमैर्वत्सस्य वावृधे ॥ - अ.२०.१३८.१

*आधान प्रकरणम् :- यो भ्रातृव्यवान्त्स्यात् । स चित्रायामग्निमादधीत । अवकीर्यैव भ्रातृव्यान् ।ओजो बलमिन्द्रियं वीर्यमात्मन्धत्ते । - तैत्तिरीय ब्राह्मण १.१.२.६

*गवामयनशेषविधिः। गार्हपत्ये प्रणयनीयमाश्वत्थमिध्ममादीप्य सिकताश्चोपयमनीरुपकल्पयते तमुद्यच्छति  :- ओजसे बलाय त्वोद्यच्छे । वृषणे शुष्मायाऽऽयुषे वर्चसे । - तै.ब्रा.१.२.१.२१

*वाजपेय पशूनां विधिः :- ओजो बलमैन्द्राग्नेयेन । इन्द्रियमैन्द्रेण । वाचँ सारस्वत्या । - तै.ब्रा.१.३.४.३

*वरुणप्रघासपर्वानन्तरभावि वपनमन्त्रौ :- यद्घर्मः पर्यवर्तयत् । अन्तान्पृथिव्या दिवः । अग्निरीशान ओजसा । वरुणो धीतिभिः सह । इन्द्रो मरुद्भिः सखिभिः सह । - तै.ब्रा.१.५.५.२

*अथर्वशिरोभिधानेष्टका मन्त्राः :- इन्द्रः स दामने कृतः । ओजिष्ठः स बले हितः । द्युम्नी श्लोकी स सौम्यः ॥ - तै.ब्रा.१.५.८.३

*राजसूये वरुणप्रघासविधिः :- ओजो बलं वा एतौ देवानाम् । यदिन्द्राग्नी । यदैन्द्राग्नो भवति । ओजो बलमेवावरुन्धे । - तै.ब्रा.१.६.४.४

*राजसूये जलग्रहण - जलाहरण विधिः :- मरुतामोजः स्थेत्याह । अन्नं वै मरुतः । अन्नमेवावरुन्धे । - तै.ब्रा.१.७.५.२

*राजसूये विजयादूर्ध्वमासनोपविष्टस्य यजमानस्य सवै सेव्यत्ववर्णनम् :-ब्रह्माँ३ त्वं राजन्ब्रह्माऽसीन्द्रोऽसि सत्यौजा इत्याह । इन्द्रमेवैनं सत्यौजसं करोति । -- - - - - इन्द्रोऽसि सत्यौजा इत्याह । त्रिष्टुभमेवैतेनाभिव्याहरति । - तै.ब्रा.१.७.१०.३

*ऐन्द्रे सौमिके कर्मणि मन्त्राः :- अक्षोदयच्छवसा क्षाम बुध्नम्। वार्णवातस्तविषीभिरिन्द्रः । दृढान्यौघ्नादुशमान ओजः । अवाभिनत्ककुभः पर्वतानाम् । - तै.ब्रा.२.४.५.३

*उपहोममन्त्राः :- शुचिमर्कैर्बृहस्पतिम् । अध्वरेषु नमस्यत । अनाम्योज आचके । - तै.ब्रा.२.४.६.३

*आग्नेयकर्मणि विनियोक्तव्यो मन्त्राः :- अग्निः क्षत्रभृदनिभृष्टमोजः । सहस्रियो दीप्यतामप्रयुच्छन् । विभ्राजमानः समिधान उग्रः । आऽन्तरिक्षमरुहदगन्द्याम् । - तै.ब्रा.२.४.६.१२

*उपहोमशेषाभिधानम् :- अग्ने जेता त्वं जय । शत्रून्त्सहस ओजसा । वि शत्रून्विमृधो नुद । - तै.ब्रा.२.४.७.४

*धारावरा मरुतो धृष्णुवोजसः । मृगा न भीमास्तविषेभिरूर्मिभिः । - - - तै.ब्रा.२.५.५.४

*उपहोमशेषाभिधानम् :- इदं वर्चो अग्निना दत्तमागात् । यशो भर्गः सह ओजो बलं च । दीर्घायुत्वाय शतशारदाय । प्रतिगृभ्णामि महते वीर्याय । - तै.ब्रा.२.५.७.१

*सौत्रामणेः कौकिल्या ग्रहाभिधानम् :- ओजोऽस्योजो मयि धेहि । मन्युरसि मन्युं मयि धेहि । महोऽसि महो मयि धेहि । सहोऽसि सहो मयि धेहि । - तै.ब्रा.२.६.१.५

*सौत्रामणेः कौकिल्या अभिधानम् :-होता यक्षत्समिधेन्द्रमिडस्पदे । नाभा पृथिव्या अधि । दिवो वर्ष्मन्त्समिध्यते । ओजिष्ठश्चर्षणीसहान् । वेत्वाज्यस्य होतर्यज । - तै.ब्रा.२.६.७.१

*सौत्रामणेः मैत्रावरुणेन पठनीया एकादश प्रयाज प्रैषाः :- होता यक्षदोजो न वीर्यम् । सहो द्वार इन्द्रमवर्धयन् । सुप्रायणा विश्रयन्तामृतावृधः । - - - तै.ब्रा.२.६.७.३

*सौत्रामण्याम् विहित पशुत्रये प्रयाजार्थ मैत्रावरुण प्रैषाभिधानम् :- होता यक्षत्त्वष्टारमिन्द्रमश्विना । भिषजं न सरस्वतीम् । ओजो न जूतिरिन्द्रियम् । वृको न रभसो भिषक् । - - - - तै.ब्रा.२.६.११.७

*अनूयाजानां मैत्रावरुण प्रैषाभिधानम् :-देव इन्द्रो वनस्पतिः । हिरण्यपर्णो अश्विभ्याम् । सरस्वत्याः सुपिप्पलः । इन्द्राय पच्यते मधु । ओजो न जूतिमृषभो न भामम् । वनस्पतिर्नो दधदिन्द्रियाणि । - तै.ब्रा.२.६.१४.५

*ओदनसवस्य होत्रादि मन्त्राः :- इन्द्राय त्वा तेजस्वते तेजस्वन्तं श्रीणामि ( इति ब्राह्मणः )। इन्द्राय त्वौजस्वत ओजस्वन्तं श्रीणामि ( इति क्षत्रियः )। इन्द्राय त्वा पयस्वते पयस्वन्तं श्रीणामि ( इति वैश्यः )। इन्द्राय त्वाऽऽयुष्मत आयुष्मन्तं श्रीणामि ( इति शूद्रः )। - तै.ब्रा.२.७.७.३

*अपां ग्रहान्गृहणन्ति । ये मन्थान्कल्पयन्ति ।:- अपां यो द्रवणे रसः । तमहमस्मा आमुष्यायणाय । तेजसे ब्रह्मवर्चसाय गृह्णामि ( इति ब्राह्मणः ) । अपां य ऊर्मौ रसः । तमहमस्मा आमुष्यायणाय । ओजसे वीर्याय गृह्णामि ( इति क्षत्रियः ) । अपां यो मध्यतो रसः । तमहमस्मा आमुष्यायणाय पुष्ट्यै प्रजननाय गृह्णामि इति वैश्यः )। अपां यो यज्ञियो रसः । तमहमस्मा आमुष्यायणाय । आयुषे दीर्घायुत्वाय गृह्णामि । - तै.ब्रा.२.७.७.७

*पशुसूक्तानामभिधानम् । वपाया याज्या :-जनिष्ठा उग्रः सहसे तुराय । मन्द्र ओजिष्ठो बहुलाभिमानः। अवर्धन्निन्द्रं मरुतश्चिदत्र । माता यद्वीरं दधनद्धनिष्ठा । - तै.ब्रा.२.८.३.४

*पशुसूक्ताभिधानम् । पुरोडाशस्य याज्या :-ययोरोजसा स्कभिता रजांसि । वीर्येभिर्वीरतमा शविष्ठा । या पत्येते अप्रतीता सहोभिः । विष्णू अगन्वरुणा पूर्वहूतौ । - तै.ब्रा.२.८.४.५

*पुरोडाशस्य याज्या :- तमु ष्टुहि यो अभिभूत्योजाः । वन्वन्नवातः पुरुहूत इन्द्रः । अषाढमुग्रं सहमानमाभिः । गीर्भिर्वर्ध वृषभं चर्षणीनाम् । - तै.ब्रा.२.८.५.८

*इष्टिहौत्रस्य मन्त्राणामभिधानम् :- महाँ इन्द्रो य ओजसा । पर्जन्यो वृष्टिमाँ इव । स्तोमैर्वत्सस्य वावृधे । - तै.ब्रा.३.५.७.४

*अच्छिद्रकाण्डाभिधानम् । बर्हिषाऽऽस्तीर्यमाणाया वेदेरनुमन्त्रणे मन्त्रम् :- ब्रह्मतेजो मे पिन्वस्व । क्षत्त्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व - - - - - तै.ब्रा.३.७.६.६

*अच्छिद्रकाण्डाभिधानम् । पक्वे पयसि सादिते सत्यभिमर्शने मन्त्रम् :-इदमिन्द्रियममृतं वीर्यम् । अनेनेन्द्राय पशवोवचिकित्सन् । तेन देवा अवतोप माम् । इहेषमूर्जं यशः सह ओजः सनेयम् । शृतं मयि श्रयताम् । - तै.ब्रा.३.७.६.१२

*अभिषवादिविषया मन्त्राः । दधिघर्मे स्रुचि गृहीतस्याभिघारितस्य दध्न आग्नीध्रीयाग्नावधिश्रयणे मन्त्रम् :- - - दक्षश्च त्वा बलं च श्रीणीताम् । ओजश्च त्वा सहश्च श्रीणीताम् । आयुश्च त्वा जरा च श्रीणीताम् । - - - तै.ब्रा.३.७.९.३

*अश्वमेधे प्रथममहः । एकस्याध्वर्योरेव चतुर्दिक्षु प्रोक्षणस्याभिधानम् :- इन्द्राग्निभ्यां त्वेति दक्षिणतः । इन्द्राग्नी वै देवानामोजिष्ठौ बलिष्ठौ । ओज एवास्मिन्बलं दधाति । तस्मादश्वः पशूनामोजिष्ठो बलिष्ठः ॥ - तै.ब्रा.३.८.७.१

*अश्वमेधे द्वितीयममहः :- ओजो बलं वा एतौ देवानाम् । यदर्काश्वमेधौ । ओजो बलमेवावरुन्धे । - तै.ब्रा.३.९.२१.३

*सावित्रचयनाभिधानम् :-सहस्वान्त्सहीयानोजस्वान्त्सहमानः । जयन्नभिजयन्त्सुद्रविणो द्रविणोदाः । - तै.ब्रा.३.१०.१.३

*सावित्रचयनाभिधानम् । निष्पन्नायाश्चितेरध्वर्योरुपस्थानम् :- तपसो जातमनिभृष्टमोजः । तत्ते ज्योतिरिष्टके । तेन मे तप । - तै.ब्रा.३.१०.३.१

*होतुरनुशंसाभिधानम् :- भूर्भुवः स्व: । ओजो बलम् । ब्रह्म क्षत्त्रम् । - - तै.ब्रा.३.१०.५.१

*नाचिकेताग्निचयनविधिः। इष्टकोपधानमन्त्राः :- ओजोऽसि सहोऽसि । बलमसि भ्राजोऽसि । - - तै.ब्रा.३.११.१.२१

*अन्नहोमार्थो मन्त्रः :- इन्द्रौजसां पते । बृहस्पते ब्रह्मणस्पते । - - - तै.ब्रा.३.११.४.२

*वैश्वसृज चयनाभिधानम् :-ऊर्ग्राजानमुदवहत् । ध्रुवगोपः सहोऽभवत् । ओजोऽभ्यष्टौद्ग्राव्ण: । यद्विश्वसृज आसत ॥ - तै.ब्रा.३.१२.९.५

*अबीष्टका :-वहन्तीर्गृह्णाति । ता उत्तरत उपदधाति । ओजसा वा एता वहन्तीरिवोद्गतीरिव आकूजतीरिव धावन्तीः । ओज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्ध ओजस्वितरः । - तै.आ.१.२४.२

*इममग्न आयुषे वर्चसे कृधि तिग्ममोजो वरुण संशिशाधि । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथाऽसत् । - तै.आ.२.५.१

*भद्रं पश्यन्त उपसेदुरग्रे । तपो दीक्षामृषयः सुवर्विद: । ततः क्षत्त्रं बलमोजश्च जातम् । तदस्मै देवा अभिसंनमन्तु । - तै.आ.३.११.९

*- - - - - दक्षाय स्वाहा क्रतवे स्वाहा । ओजसे स्वाहा बलाय स्वाहा । - तै.आ.४.५

*धनुर्हस्तादाददाना मृतस्य श्रियै क्षत्त्रायौजसे बलाय । अत्रैव त्वमिह वयं सुशेवा विश्वा स्पृधो अभिमातीर्जयेम । - तै.आ.६.१.३

*आदित्यो वै तेज ओजो बलं यशश्चक्षुः श्रोत्रमात्मा मनो मन्युः - - - - तै.आ.१०.१४.१

*गायत्री छन्दसां माता इदं ब्रह्म जुषस्व नः । ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि - - - तै.आ.१०.२६.१

*गायत्र्या आवाहनमन्त्रम् :- ओजोऽसि सहोऽसि बलमसि भ्राजोऽसि - - - तै.आ.१०.३५.१

*कर्णयोः श्रोत्रम् । बाहुवोर्बलम् । ऊरुवोरोजः । - तै.आ.१०.७२.१

*सोमानयनम् :- एतद्वै वयसामोजिष्ठं बलिष्ठं - यच्छ~येनः । तमेवैतद्भूतं प्रपातयति - यदाह श्येनो भूत्वा परापतेति । - शतपथ ब्राह्मण ३.३.४.१५

*प्रवर्ग्यकर्मणि तानूनप्त्रम् :- शक्वनऽओजिष्ठाय इति । एष वै शक्वौजिष्ठः । एतस्माऽउ हि गृह्णाति । तस्मादाह - शक्वनऽओजिष्ठायेति । - मा.श.३.४.२.१२

*ते समवमृशन्ति - अनाधृष्टमस्यनाधृष्यं देवानामोजः इति । अनाधृष्टा हि देवा आसन्, अनाधृष्याः- - - -मा.श.३.४.२.१४

*मरुत्वीय ग्रहः :- ते ( मरुतः ) होचुः - अपनिधायैनमोज उपावर्तामहाऽइति । त एनमपनिधायैवौज उपाववृतुः । तद्वाऽइन्द्रोऽस्पृणुत । अपनिधाय वै मौज उपावृतन्निति । स होवाच सहैव मौजसोपावर्तध्वमिति । तेभ्यो वै नस्तृतीयं ग्रहं गृहाणेति । तेभ्य एतं तृतीयं ग्रहमगृह्णात् उपयामगृहीतोऽसि मरुतां त्वोजसे इति । त एनं सहैवौजसोपावर्तन्त । तैर्व्यजयत ।- - - क्षत्रं वाऽइन्द्रः, विशो मरुतः । - मा.श. ४.३.३.९

*- - - एष ते योनिरिन्द्राय त्वा मरुत्वते । उपयामगृहीतोऽसि मरुतां त्वौजसे इति तृतीयं ग्रहं गृह्णाति । - मा.श.४.३.३.१४

*अतिग्राह्याग्रहाः :- नो ह वाऽइदमग्रऽइन्द्रऽओज आस - यदिदमस्मिन्नोजः । सोऽकामयत । इदं मय्योजः स्यादिति । स एतं ग्रहमपश्यत् । तमगृह्णीत ततोऽस्मिन्नेतदोज आस । नो ह वाऽइदमग्रे सूर्ये भ्राज आस - - - - -मा.श.४.५.४.४

*उत्तिष्ठन्नोजसा सह पीत्वी शिप्रेऽअवेपयः । सोममिन्द्र चमू सुतम् । उपयामगृहीतोऽसीन्द्राय त्वौजसऽएष ते योनिरिन्द्राय त्वौजसे इति - मा.श.४.५.४.१०

*पात्रावकाशमन्त्राः :- अथोक्थ्यम् - ओजसे मे वर्चोदा वर्चसे पवस्व इति । - मा.श.४.५.६.३

*प्रायश्चित्तम् :-यत्रऽइदं किं चार्च्छति - वरुण एवेदं सर्वमार्पयति । ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा । - - -- -मा.श.४.५.७.७

*तमुपरिष्टाच्छीर्ष्णो निदधाति - ओजोऽसि सहोऽस्यमृतमसि इति । अमृतमायुर्हिरण्यम् । तदस्मिन्नमृतमायुर्दधाति । - मा.श.५.४.१.१४

*अभिषेकोत्तरकर्माणि :- मरुतामोजसे स्वाहा इति । स यदेव मारुतं रथस्य - तदेवैतेन प्रीणाति । - मा.श.५.४.३.१७

*वरुणोऽसि सत्यौजा इति । वीर्यमेवास्मिन्नेतद्दधाति । वरुणमेव सत्यौजसं करोति । - मा.श.५.४.४.१०

*तम् ( भर्गम् ) एताभिर्देवताभिरनुसमसर्पत् । - - - बृहस्पतिना ब्रह्मणा वरुणेनौजसाऽग्निना तेजसा - - - मा.श.५.४.५.२

*अथ वारुणं यवमयं चरुं निर्वपति । स येनैवौजसेमाः प्रजा वरुणोऽगृह्णात् - तेनैव तदोजसा वरुणोऽनुसमसर्पत् । तेनोऽएवैष तदोजसाऽनुसंसर्पति । तत्रैकं पुण्डरीकं प्रयच्छति । - मा.श.५.४.५.१२

*यस्य प्रयाणमन्वन्यऽइद्ययुः इति । - - -देवा देवस्य महिमानमोजसा इति । यज्ञो वै महिमा, देवा देवस्य यज्ञं वीर्यमोजसेत्येतद् । - मा.श.६.३.१.१८

*स्रुगिष्टकाद्वयोपधानम् :- यद्वेव स्रुचाऽउपदधाति । प्रजापतेर्विस्रस्तस्याग्निस्तेज आदाय दक्षिणाऽकर्षत् ।  - - - -अथास्येन्द्र ओज आदायोदङ्ङुदक्रामत् । स उदुम्बरोऽभवत्~ । - मा.श.७.४.१.३९

*अथौदुम्बरीमुत्तरत उपदधाति । इन्द्रस्य त्वौजसा सादयामि इति । यदेवास्य तदिन्द्र ओज आदायोदङ्ङुदक्रामत् - तदस्मिन्नेतत्प्रतिदधाति । - मा.श.७.४.१.४२

*अष्टादश स्तोमेष्टकोपधानम् :-ओजस्त्रिणवः इति । य एव त्रिणवः स्तोमः - तं तदुपदधाति । तद्यत्तमाह - ओज इति । वज्रो वाऽओजः । वज्रस्त्रिणवः । - मा.श.८.४.१.२०

*स्पृदिष्टकोपधानम् :-ओजः स्पृतं, त्रिणवः स्तोमः इति । ओजः प्रजानां त्रिणवेन स्तोमेन पाप्मनो मृत्योरस्पृणोत् । - मा.श.८.४.२.९

*पञ्चम चितेः असपत्नेष्टकोपधानम् :- अथ दक्षिणतः । षोडशी स्तोम ओजो द्रविणम् इति । एकादशाक्षरा वै त्रिष्टुप् । त्रैष्टुमन्तरिक्षम् । - - - मा.श.८.५.१.१०

*पञ्चचूडेष्टकोपधानम् :- स पुरस्तादुपदधाति । अयं पुरो हरिकेशः इति ।- - - - -तस्य रथगृत्सश्च रथौजाश्च सेनानीग्रामण्यौ इति - मा.श.८.६.१.१६

*सौत्रामणी यागः :- मूत्रादेवास्योजोऽस्रवत्स वृकोऽभवत्~ , आरण्यानां पशूनां जूतिः ।- - - -लोहितादेवास्य सहोऽस्रवत्स सिंहोऽभवत्~ , आरण्यानां पशूनामीशः । - मा.श.१२.७.१.८

सौत्रामणी :- वृकलोमानि भवंति । ओज एव जूतिमारण्यानां पशूनामवरुन्धे । व्याघ्र|लोमानि भवन्ति । मन्युमेव राज्यमारण्यानां पशूनामवरुन्धे । सिंहलोमानि भवन्ति । सह एवेशामारण्यानां पशूनामवरुन्धे । - मा.श.१२.७.२.८

*अश्वमेधः :- इन्द्राग्निभ्यां त्वा जुष्टं प्रोक्षामि इति । इन्द्राग्नी वै देवानामोजस्वितमौ । ओज एवास्मिन् दधाति । तस्मादश्वः पशूनामोजस्वितमः । - मा.श.१३.१.२.६

*महावीरादि प्रवर्ग्यपात्र संभरण ब्राह्मणम् :-अथादारान् - इन्द्रस्योजः स्थ इति । यत्र वा एनमिन्द्र ओजसा पर्यगृह्णात् । तदस्य परिगृहीतस्य रसो व्यक्षरत् । - - - - यज्ञस्य हि रसात्संभूताः । अथ यदेनं तदिन्द्र ओजसा पर्यगृह्णात् । तस्मादाह । इन्द्रस्योजः स्थ इति । - मा.श.१४.१.२.१२

*घर्मसन्दीपनं ब्राह्मणम् :- विधृतिरुपरिष्टात् इति - - बृहस्पतेराधिपत्ये इति ।- - - - ओजो मे दाः इति । ओज एवात्मन्धत्ते । तथौजस्वी बलवान् भवति । - मा.श. १४.१.३.२३

*गायत्रब्रह्मोपासना ब्राह्मणम् :- प्राणो वै बलम् । तत्प्राणे प्रतिष्ठितम् । तस्मादाहुः - बलं सत्यादोजीय इति । एवं उ एषा गायत्री अध्यात्मं प्रतिष्ठिता । - मा.श.१४.८.१५.६

*सोमस्य आतिथ्येष्टिः :- ( हे तानूनप्त्राऽऽज्य! ) शक्मन्नोजिष्ठाय त्वा गृह्णाम्यनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तेन्यम् - तैत्तिरीय संहिता १.२.१०.२

*अतिग्राह्यषोडशिग्रहाभिधानम् :- उत्तिष्ठन् ओजसा सह पीत्वा शिप्रे अवेपयः । सोममिन्द्र चमू सुतम् । उपयामगृहीतोऽसीन्द्राय त्वौजस्वत एष ते योनिरिन्द्राय त्वौजस्वते । - तै.सं.१.४.३०.१

*गार्हपत्याहवनीययोरुपस्थानम् :- उभा वामिन्द्राग्नी आहुवध्या इत्याहौजो बलमेवावरुन्धे - तै.सं.१.५.७.२

*प्राधान्येनाऽऽज्यग्रहणानुमन्त्रणमन्त्राः :- ब्रह्मणस्त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि क्षत्त्रस्य त्वौजसे यन्त्राय धर्त्राय गृह्णामि विशे त्वा यन्त्राय धर्त्राय गृह्णामि - तै.सं.१.६.१.२

*याज्यापुरोनुवाक्याभिधानम् :-अपां नपातमश्विना ह्वयन्तमस्मिन्नर इन्द्रियं धत्तमोजः । - - - -इन्द्र क्षत्त्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ।  - तै.सं.१.६.१२.४

*राजसूयविषयाणामभिषेकार्थजलविषयमन्त्राणामभिधानम् :-- - - व्रजक्षितः स्थ मरुतामोजः स्थ सूर्यवर्चसः स्थ - - - तै.सं.१.८.११.१

*राजसूयविषयस्य रथेन विजयस्याभिधानम् :- - - - - इन्द्रस्य बलाय स्वाहा मरुतामोजसे स्वाहा - - - तै.सं.१.८.१५.२

*भूतिकामादीनामादित्यचर्वादीष्टिविधिः :- आश्वत्था भवन्ति मरुतां वा एतदोजो यदश्वत्थ ओजसैव विशमव गच्छति सप्त भवन्ति सप्तगणा वै मरुतो - तै.सं.२.३.१.५

*आयुष्कामेष्टिविधिः :- बृहद्रथंतरयोस्त्वा स्तोमेनेत्याहौज एवास्मिन्नेतेन दधाति - तै.सं.२.३.११.४

*भ्रातृव्यवतः स्पर्धमानस्य संवर्गेष्टिविधिः :- न्यतराँ श्चनोपावर्तत ते देवा एतद्यजुरपश्यन्नोजोऽसि सहोऽसि बलमसि भ्राजोऽसि - - - - - इति वाव देवा असुराणामोजो बलमिन्द्रियं वीर्यं प्रजां पशूनवृञ्जत- - - - - - यदेतया देवा असुराणामोजो बलमिन्द्रियं वीर्यम् प्रजां पशूनवृञ्जत तस्मादेताँ संवर्ग इतीष्टिमाहुः - - - - अग्नये संवर्गाय पुरोडाशमष्टाकपालं निर्वपेत्तं© शृतमासन्नमेतेन यजुषाऽभिमृशेदोज एव बलमिन्द्रियं वीर्यं प्रजां पशून्भ्रातृव्यस्य वृङœ~ते - तै.सं.२.४.३.३

*चित्रायागस्योपहोममन्त्राः :- अग्ने गृहपते यस्ते घृत्यो भागस्तेन सह ओज आक्रममाणाय धेहि- तै.सं.२.४.५.२

*कारीरीष्टिविधिः :- मारुतमसि मरुतामोजोऽपां धारां भिन्धि (इति अग्नीनन्वाधायापरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य कृष्णं कृष्णतूषं परिधत्ते ) - तै.सं.२.४.७.१

*कीरीरीष्टिमन्त्रव्याख्यानम् :- मारुतमसि मरुतामोज इति कृष्णं वासः कृष्णतूषं परि धत्त एतद्वै वृष्ट्यै रूपं सरूप एव भूत्वा पर्जन्यं वर्षयति - तै.सं.२.४.९.१

*संवर्गेष्टिहोत्रमन्त्राभिधानम् :-- - - ऊर्मिर्न नावमा वधीत् । नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैः अमित्रमर्दय । - तै.सं.२.६.११.२

*दीक्षितेन वक्तव्यमन्त्राणां तद्विधीनां चाभिधानम् :- यद्वै दीक्षितमभिवर्षन्ति दिव्या आपोऽशान्ता ओजो बलं दीक्षाम् तपोऽस्य निर्घ्नत्युन्दतीर्बलं धत्तौजो धत्त बलं धत्त - - - - एतदेव सर्वमात्मन्धत्ते नास्योजो बलं न दीक्षां न तपो निर्घ्नन्ति । - तै.सं.३.१.१.२

*अतिग्राह्यगतमन्त्राभिधानम् :-तेजोविदसि तेजो मा मां हासीन्माऽहं तेजो हासिषं मा मां तेजो हासीदिन्द्रौजस्विन्नोजस्वी त्वं देवेषु भूया ओजस्वन्तं वर्चस्वन्तं मनुष्येषु कुरु ब्रह्मणश्च त्वा क्षत्त्रस्य च ओजसे जुहोम्योजोविदस्योजो मा मा हासीन्माऽहमोजो हासिषं मा मामोजो हासीत्सूर्य भ्राजस्विन्भ्राजस्वी - - - -तै.सं.३.३.१.१

*राष्ट}भृन्मन्त्राणां काम्यप्रयोगाभिधानम् :- रथमुख ओजस्कामस्य होतव्या ओजो वै राष्ट}भृत ओजो रथ ओजसैवास्मा ओजोऽव रुन्ध ओजस्व्येव भवति - तै.सं.३.४.८.२

*चतुर्थचितावक्ष्णयास्तोमीयास्येष्टकासु कासांचिदभिधानम् :-- - - योनिश्चतुर्विंशो गर्भा पञ्चविँश ओजस्त्रिणवः - - - तैत्तिरीय संहिता ४.३.८.१

*अवशिष्टाक्ष्णयास्तोमीयास्येष्टकाभिधानम् :-- - - - ऽदित्यै भागोऽसि पूष्ण आधिपत्यमोजः स्पृतं त्रिणवःस्तोमो- - -तै.सं.४.३.९.१

*पञ्चम्यां चितावसपत्नादीष्टकाभिधानम् :- चतुश्चत्वारिंशः स्तोमो वर्चो द्रविण© षोडशः स्तोम ओजो द्रविणं पृथिव्याः पुरीषमसि अप्सो नाम । - तै.सं.४.३.१२.१

*- - - ओजोऽसि पितृभ्यस्त्वा पितॄञ्जिन्व तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व - - - तै.सं.४.४.१.२

*याज्यानुवाक्याभिधानम् :-त्रिवृन्नो विष्ठया स्तोमो अह्नां समुद्रो वात इदमोज पिपर्तु । उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रे अहन्योजसीना । - - - बृहत्साम क्षत्त्रभृद्वृद्धवृष्णियं त्रिष्टुभौजःशमितमुग्रवीरम् । - तै.सं.४.४.१२.१

*अश्वमेधकर्तू रथसज्जीकरणभाविकवचस्वीकाराद्यङ्गाभिधानम् :-दिवः पृथिव्या परि ओज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः । अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज । - तै.सं.४.६.६.६

*आ क्रन्दय बलमोजो न आ धा निष्टनिहि दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुनां इत इन्द्रस्य मुष्टिरसि वीडयस्व ॥ - तै.सं.४.६.६.७

*वसोर्धाराद्यभिधानम् :-- - - दक्षश्च मे बलं च मे ओजश्च मे सहश्च म आयुश्च मे जरा च म - - -तै.सं.४.७.१.२

*अश्वमेधसंबन्धि याज्यानुवाक्याभिधानम् :- मन्वे वां मित्रावरुणा तस्य वित्तं सत्यौजसा दृंहणा यं नुदेथे । - तै.सं.४.७.१५.२

*स्वयमातृण्णाद्यभिधानम् :-इन्द्राग्नी वै देवानामोजोभृतावोजसैवैनामन्तरिक्षे चिनुते धृत्यै - तै.सं.५.३.२.१

*अक्ष्यणयास्तोमीयादीनामभिधानम् :- पृथिवी छन्द इति पश्चात्प्रतिष्ठित्या अग्निर्देवतेत्युत्तरत ओजो वा अग्निरोज एवोत्तरतो धत्ते - तै.सं.५.३.२.४

*अक्ष्णयास्तोमीयादीनामभिधानम् :- भान्त पञ्चदश इत्युत्तरत ओजो वै भान्त ओजः पञ्चदश ओज एवोत्तरतो धत्ते - तै.सं.५.३.३.२

*ओजस्त्रिणव इति पश्चादिमे वै लोकास्त्रिणव एष्वेव लोकेषु प्रति तिष्ठति - तै.सं.५.३.३.४

*अक्ष्णयास्तोमीयादीनामभिधानम् :- इन्द्रस्य भागोऽसीत्युत्तरत ओजो वा इन्द्र ओजो विष्णुरोजः क्षत्त्रमोजः पञ्चदश ओज एवोत्तरतो धत्ते - तै.सं.५.३.४.२

*यस्योजस्वतीरुत्तरत ओजस्व्येव भवत्याऽस्योजस्वी जायते - तै.सं.५.३.४.६

*असपत्नविराडाख्येष्टकाभिधानम् :-षोडशः स्तोम इत्युत्तरत ओजो वै षोडश ओज एवोत्तरतो धत्ते - तै.सं.५.३.५.१

*सुदीतिरित्यादित्यानोज इति पितॄंस्तन्तुरिति प्रजाः - तै.सं.५.३.६.१

*उपस्थानाद्यभिधानम् :-गायत्रेण पुरस्तादुप तिष्ठते प्राणमेवास्मिन्दधाति बृहद्रथंतराभ्यां पक्षावोज एवास्मिन्दधाति - तै.सं.५.५.८.१

*आहुत्याद्यभिधानम् :- बाहुवोर्बलमूरुवोरोजोऽरिष्टा विश्वान्यङ्गानि - तै.सं.५.५.९.२

*सर्पाहुत्याद्यभिधानम् :- ओजस्विनी नामासि दक्षिणा दिक्तस्यास्त इन्द्रोऽधिपतिः पृदाकुः प्राची - - - तै.सं.५.५.१०.१

*कुम्भेष्टकामन्त्रणार्थमन्त्राभिधानम् :- सर्वां अग्नींरप्सुषदो हुवे वो मयि वर्चो बलमोजो नि धत्त । - तै.सं.५.६.१.२ं

*द्वंद्विपश्वभिधानम् :- इन्द्राग्निभ्यामोजोदाभ्यामुष्टारा - - - - तै.सं.५.६.२१.१

*भद्रं पश्यन्त उप सेदुरग्रे तपो दीक्षामृषयः सुवर्विद । ततः क्षत्त्रं बलमोजश्च जातं तदस्मै देवा अभि सं नमन्तु । - तै.सं.५.७.४.३

*ओजो ग्रीवाभिर्निर्ऋतिमस्थभिः - तै.सं.५.७.१८.१

*तानूनप्त्रेष्ट्यभिधानम् :- शक्मन्नोजिष्ठायेत्याहौजिष्ठं हि ते तदात्मनः समवाद्यन्तानाधृष्टमस्यनाधृष्यमित्याहानाधृष्टं ह्येतदनाधृष्यं देवानामोजः इत्याह देवानां ह्येतदोजो- - -तै.सं.६.२.२.३

*मरुत्वतीयमाहेन्द्रग्रहकथनम् :- ओजोभृतौ वा एतौ देवानां यदिन्द्राग्नी यदैन्द्राग्नो गृह्यते ओज एवाव रुन्धे - तै.सं.६.५.५.१

*पश्वेकादशिनीकथनम् :- विश मारुतेनोजो बलमैन्द्राग्नेन - तै.सं.६.६.५.२

*स्तोमानां संभूयकारित्वकथनम् :- पञ्चदशेनौजसा वीर्येण - तै.सं.७.१.२.१

*त्रैष्टुभमुत्तर ओजो वै वीर्यं त्रिष्टुबोज एव वीर्यमात्मन्धत्ते - तै.सं.७.१.४.२

*अन्यच्चतुर्दशरात्रकथनम् :- ओजो वै वीर्यं पृष्ठान्योज एव वीर्यं मध्यतो दधते - तै.सं.७.३.५.३

*पञ्चदशरात्रकथनम् :- ओजो वै वीर्यं पृष्ठानि पशवश्छन्दोमा ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति - तै.सं.७.३.६.२

*द्वितीयपञ्चदशरात्रकथनम् :- पञ्चदशरात्रेणौजो बलमिन्द्रियं वीर्यमात्मन्नधत्त- - -एता एव पशव्याः पञ्चदश वा अर्धमासस्य रात्रयो ऽर्धमासशः संवत्सर आप्यते - तै.सं.७.३.७.१

*यदन्यतः पृष्ठानि स्युर्विविवधं स्यान्मध्ये पृष्ठानि भवन्ति सविवधत्वायौजो वै वीर्यं पृष्ठान्योज एव वीर्यं मध्यतो दधते - तै.सं. ७.३.७.३

*देवता एव पृष्ठैरव रुन्धते पशूञ्छन्दोमैरोजो वै वीर्यं पृष्ठानि पशवश्छन्दोमा ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति - तै.सं.७.३.८.२

*मध्ये पृष्ठानि भवन्ति सविवधत्वायौजो वै वीर्यं पृष्ठान्योज एव वीर्यं मध्यतो दधते - तै.सं.७.३.९.३

*प्रथमचतुर्विशतिरात्रकथनम् :- देवता एव पृष्ठैरव रुन्धते पशूञ्छन्दोमैरोजो वै वीर्यं पृष्ठानि पशवश्छन्दोमा ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति - तै.सं.७.४.१.२

*द्वितीयचतुर्विंशतिरात्रकथनम् :- देवता एव पृष्ठैरव रुन्धते पशूञ्छन्दोमैरोजो वै वीर्यं पृष्ठानि पशवः छन्दोमा ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति - तै.सं.७.४.२.३

*षट्त्रिंशद्रात्रकथनम् :-देवता एव पृष्ठैरव रुन्धते पशूञ्छन्दोमैरोजो वै वीर्यं पृष्ठानि पशवश्छन्दोमा ओजस्येव वीर्ये पशुषु प्रति तिष्ठन्ति - तै.सं.७.४.६.२

*त्रिष्टुभौ वीर्यकामः कुर्वीत । ओजो वा इन्द्रियं वीर्यं त्रिष्टुप् । - ऐतरेय ब्राह्मण १.५

*ते वा असुरा इमानेव लोकान्पुरोऽकुर्वत यथौजीयांसो बलीयांस एवं ते वा अयस्मयीमेवेमामकुर्वत - - - - - - ऐ.ब्रा.१.२३

*त्रैष्टुभो वै राजन्य ओजो वा इन्द्रियं वीर्यं त्रिष्टुपबोजसैवैनं तदिन्द्रियेण वीर्येण समर्धयति । - ऐ.ब्रा.१.२८

*ते देवा अबिभयुरादातारो वै न इमं प्रातर्यज्ञमसुरा यथौजीयांसो बलीयांस एवमिति तानब्रवीदिन्द्रो मा बिभीत त्रिषमृद्धमेभ्योऽहं प्रातर्वज्रं प्रहर्ताऽस्मि - - - - ऐ.ब्रा.२.१६

*वाक्च वै प्राणापानौ च वषट्कारस्य एते वषट्कृते वषट्कृते व्युत्क्रामन्ति ताननुमन्त्रयेत वागोजः सह ओजो मयि प्राणापानाविति - ऐ.ब्रा.३.८

*धारावरा मरुतो धृष्ण्वोजस इति मारुतं बह्वभिव्याहृत्यम् अन्तो वै बह्वन्तस्तृतीयमहः - ऐ.ब्रा.५.२

*प्रउग शस्त्र :- - - -यावत्तरस्तन्वो३यावदोजः - ऐ.ब्रा.५.१८

*तं विश्वेदेवा ऊचुरिन्द्रो वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः - - -तं नु स्तुहि - ऐ.ब्रा.७.१६

*मरुत्वतीये शस्त्रे निविद्धानीयं सूक्तं :- मन्द्र ओजिष्ठ इत्योजस्वत्तत्क्षत्रस्य रूपं - - - -ओजो वा इन्द्रियं वीर्यं त्रिष्टुबोजः क्षत्त्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति - ऐ.ब्रा.८.२

*निष्केवल्य शस्त्रे निविद्धानीयं सूक्तं :- तमु ष्टुहि यो अभिभूत्योजा इति सूक्तमभिवदभिभूत्यै रूपम् - ऐ.ब्रा.८.३

*तत्पञ्चदशर्चं भवत्योजो वा इन्द्रियं वीर्यं पञ्चदश ओजः क्षत्त्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति - ऐ.ब्रा.८.३

*उक्थ्य एवायं पञ्चदशः स्यादित्याहुरोजो वा इन्द्रियं वीर्यं पञ्चदश ओजः क्षत्त्रं वीर्यं राजन्यस्तदेनमोजसा क्षत्त्रेण वीर्येण समर्धयति - ऐ.ब्रा.८.४

*सर्वाf अग्नीfरप्सुषदो हुवे वो मयि वर्चो बलमोजो निधत्तेति - ऐ.ब्रा.८.६

*ते देवा अब्रुवन्सप्रजापतिका अयं वै देवानामोजिष्ठो बलिष्ठः सहिष्ठः सत्तमः पारयिष्णुतम इममेवाभिषिञ्चामहा इति - ऐ.ब्रा.८.१२

*वावृधानः शवसा भूर्योजा इति एष वै वावृधानः शवसा भूर्योजाः । - ऐतरेय आरण्यक १.३.४

*तमु ष्टुहि यो अभिभूत्योजाः सुत इत्त्वं निमिश्ल - - - ऐतरेय आरण्यक ५.२.२

*यद्यज्ञ उल्बणं क्रियते तदप उपनिनयेद्ययोरोजसा स्कभिता रजांसि वीर्येभिर्वीरतमा शविष्ठा - - - षड्विंश ब्राह्मण १.५.१५

*एतस्यां वा एकादशिन्यामादित्याः सूर्यमजनयन् । स तेजो ब्रह्मवर्चसमवरुन्धते । ओजस्वी ब्रह्मवर्चसी भवति । य एवं वेद । - षड्विंश ब्राह्मण ४.१.२०

*एष वै वज्राणामोजिष्ठो यत्साम वज्र: । - षड्विंश ब्राह्मण ४.२.८

*विष्टुतिः :- ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा, यत् प्रथमा भूयिष्ठा भाजयति ब्रह्मण्येव तदोजोवीर्य्यन्दधाति - ताण्ड~य ब्राह्मण १.८.२

*ओजोसि पितृभ्यस्त्वा पितॄञ्जिन्व सवितृप्रसूता बृहस्पतये स्तुत - ताण्ड~य ब्राह्मण १.९.१२

*तामेतामाभिप्रतारिणा उपासते तस्मात्त ओजिष्ठा स्वानाम् - तां.ब्रा.२.९.४

*विष्टुतयः :- यत् पञ्चदशिन्यौ पूर्वे भवतश्चतुर्द्दशोत्तमा ब्रह्मणि चैव तत् क्षत्रे चौजो वीर्य्यं दधाति - तां.ब्रा.३.९.२

*विश्वा दधान ओजसेत्योजसैवास्मै वीर्य्येण विशं परस्तात्परिगृह्णाति - तां.ब्रा.६.१०.११

*ओजसा वा एतद्वीर्य्येण प्रदीयते यदप्रत्तं भवति यद्वृष्ण: सुतस्योजस इत्याहौजसैवास्मै वीर्य्येण दिवो वृष्टिं प्रयच्छति - तां.ब्रा.६.१०.१८

*इदं ह्यन्वोजसेति माधुछन्दसं प्रजापतेर्व्वा एषा तनूरयातयाम्नी प्रयुज्यते - तां.ब्रा.९.२.१७

*ऐयाहा इति वा इन्द्रो वृत्रमहन्नैयादोहोवेति न्यगृह्णाद्वार्त्रघ्नेÀv सामनी वीर्यवती । ओज एवैताभ्यां वीर्य्यमवरुन्धे । पञ्चदश एव स्तोमो भवत्योजस्येव तद्वीर्य्ये प्रतितिष्ठत्योजो वीर्यं पञ्चदशः । - तां.ब्रा.११.११.१४

*ओजो वीर्य्यं त्रिष्टुबोजस्येव वीर्य्ये पराक्रम्य प्रयन्ति - तां.ब्रा.१४.१.६

*प्रजापति प्रजा असृजत तां अस्मात् सृष्टा अबला इवाछदयंस्तास्वेतेन साम्ना दक्षायेत्योजोवीर्य्यमदधाद्यदेतत् साम भवत्योज एव वीर्य्यमात्मन्धत्ते । - तां.ब्रा.१४.५.१३

*एकादशाक्षरणिधनो भवत्येकादशाक्षरा त्रिष्टुबोजोवीर्य्यं त्रिष्टुबोजस्येव वीर्य्यं प्रतितिष्ठति - तां.ब्रा.१४.५.१९

*चतुश्चत्वारिंश एव स्तोमो भवत्योजस्येव तद्वीर्य्ये प्रतितिष्ठत्योजोवीर्य्यं त्रिष्टुप् । - तां.ब्रा.१४.७.१०

*तृतीयस्योक्थस्य स्तोत्रीयं तृचं :-पुरां भिन्दुर्य्युवकविरमितौजा अजायतेन्द्रो विश्वस्य कर्म्मणो - - - तां.ब्रा.१४.१२.३

*चतुश्चत्वारिंश एव स्तोमो भवत्योजस्येव तद्वीर्य्ये प्रतितिष्ठत्योजो वीर्य्यं त्रिष्टुप् । - तां.ब्रा.१४.१२.१०

*त्रैककुभं ( साम ) भवति । ओजस्येव तद्वीर्य्ये प्रतितिष्ठत्योजोवीर्य्यन्त्रैककुभं - तां.ब्रा.१५.६.५

*पञ्चदशेनातिरात्रेण वीर्य्यकामो यजेतौजो वीर्य्यं पञ्चदश ओज एव वीर्य्यमवरुन्ध ओजसि वीर्य्ये प्रतितिष्ठति - तां.ब्रा.२०.१०.१

*इन्द्राग्नी वै देवानामोजिष्ठा ओजिष्ठा भवन्ति य एता उपयन्ति - तां.ब्रा.२४.१७.३, २५.११.३

*तम् अश्वम् एतयर्चाज्याहुत्याभ्यजुहोत् - इन्द्रस्योजो मरुतामनीकम् इति - गोपथ ब्राह्मण १.२.२१

*ते देवा अब्रुवन् - इन्द्रो वै देवानामोजिष्ठो बलिष्ठः । तस्मा एनत् परिहरतेति । - गो.ब्रा.२.१.३

*शाक्वरायेत्याह । शक्त्यै हि ते तां समवाद्यन्त । शक्मन ओजिष्ठायेत्याह ओजिष्ठं हि ते तदात्मनः समवाद्यन्त । - - - - - -देवानामोज इत्याह । देवानां ह्येतदोजः । - गो.ब्रा.२.२.३

*ओजोऽसि, पितृभ्यस्त्वेति । बलमेव तत् पितॄननुसंतनोति - गो.ब्रा.२.२.१३

*तदु ह स्माह दीर्घमेवैतत् सदप्रभ्वोजः सह ओज इत्यनुमन्त्रयेत । ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ । प्रियाभ्यामेव तत् तनूभ्यां समर्धयति । - गोपथ ब्राह्मण २.३.५

*वाक् च वै प्राणापानौ च वषट्कारः । ते वषट्कृते वषट्कृते व्युत्क्रामन्ति । ताननुमन्त्रयते - वागोजः , सह ओजो, मयि प्राणापानाविति । - गो.ब्रा.२.३.६

*यदेव - इन्द्राय मद्वने सुतम् , इदं वसो सुतमन्धः, इदं ह्यन्वोजसा सुतम् इति स्तुवन्ति च शंसन्ति च, तेन रात्रिः पवमानवती । - गो.ब्रा.२.५.३

*त्रिवृता ब्रह्मवर्चसेन पञ्चदशायौजसे वीर्याय ज्योतिर् अदधुः । पञ्चदशेनौजसा वीर्येण सप्तदशाय प्रजायै पशुभ्यः प्रजननाय ज्योतिर् अदधुः । - जैमिनीय ब्राह्मण १.६६

*गायत्री ब्रह्मवर्चसम् ओजो वीर्यं त्रिष्टुप् प्रजननं जगती । ब्रह्मवर्चस्य् ओजस्वी वीर्यवान् प्रजया पशुभिर् जायते य एवं वेद । - जैमिनीय ब्राह्मण १.९३

*इदं ह्य् अन्व~ ओजसा इति घृतश्चुन्निधनम् । - जै.ब्रा.१.२२४

*त्रिष्टुप्स्व् ओजस्कामः वीर्यकामः । ओजो वै वीर्यं त्रिष्टुप् । ओजस्व्य् एव वीर्यवान् भवति । - जै.ब्रा.१.२२९

*तेजो वै ब्रह्मवर्चसं त्रिवृत् स्तोम ओजो वीर्यं पञ्चदशः । ओजसैव तद् वीर्येण प्रतिष्ठाय तेजो ब्रह्मवर्चसं हरति य एवं वेद । - जै.ब्रा.१.२५३

*सा जगती प्रथमोदपतद् ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा मन्यमाना । - जै.ब्रा.१.२८७

*एकविंशेन प्रतिष्ठाकामस् , त्रिणवेनौजस्कामस् , त्रयस्त्रिंशेन श्रीकामः । - जै.ब्रा.२.१३६

*वावृधानश् शवसा भूर्योजाश् शत्रुर् दासाय भियसं दधातीतीन्द्रो ह सः । - जै.ब्रा.२.१४४

*त (देवाः ) एतं यज्ञम् अपश्यन् । तम् आहरन् । तेनायजन्त । ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानाम् आसन्न् , अजयन् स्वर्गं लोकम् । ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति -  - - - - - तेन हैतेनैकयावा कांदम ईजे । स हौजिष्ठश् चैव बलिष्ठश् च भूयिष्ठश् च वीर्यवत्तमश् च स्वानाम् आस, जिगाय वा लोकं न वा । - जै.ब्रा.२.१७५

*अथाकामयत भरद्वाज - ओजिष्ठा मे बलिष्ठा प्रजा स्याद् इति । स एतं पञ्चदशं स्तोमम् अपश्यत् । -- - - - - ओजो वै बलं पञ्चदश स्तोमानाम् । ततो वै तस्योजिष्ठा बलिष्ठा प्रजाभवत्~ । - जै.ब्रा.२.२१७

*तेजो वै ब्रह्मवर्चसं त्रिवृत् स्तोम, ओजो वीर्यं पञ्चदशो, ऽन्नं सप्तदशः - जै.ब्रा.२.३३२

*उभे प्रतिपदौ भवत्, उभे ह्य् अत्र सामनी क्रियेते । तर्ह्य् अथौजिष्ठौ बलिष्ठौ वहिष्ठौ संपादयिष महान्तम् अध्वानं संयुज्योपप्रेयात् तादृक् तत् । - जै.ब्रा.२.३७९

*मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानां स्याम, जयेम स्वर्गं लोकम् इति । त एतत् सामापश्यन् । तेनास्तुवत । - जै.ब्रा.३.२३७

*पुरां भिन्दुर् युवा कविर् अमितौज अजायत । - जै.ब्रा.३.२३८

*अथ यस्माद् दवीयस् सन् ज्यायस्तोमम् उत्तमम् अहस् तस्माद् असाव~ आदित्यो दवीयस् सन्न् ओजीयस् तपति - जै.ब्रा.३.३१८

*अश्वाद् इयायेति यद्वदन्त्य~ ओजसो जातम् उत मन्य एनम् । -- - - - - इत्य् ओजसो ऽन्वाहं जातं मन्य इति होवाच । - जै.ब्रा.३.३६५

*अग्न्याधेयम् :-अथ मुञ्जकुलायमाहरति या त अग्न ओजस्विनी तनूरोषधीषु प्रविष्टा । तां त इह संभरामीति - बौधायन श्रौत सूत्र २.६

*अग्निष्टोम प्रातः सवनम् :- - - - शाक्वराय त्वा गृह्णामि शक्मन्नोजिष्ठाय त्वा गृह्णामीति स यावन्त ऋत्विजस्त एनत्समवमृशन्त्यनाधृष्टमस्यनाधृष्यं देवानामोजो ऽभिशस्तिपा - - - बौ.श्रौ.सू.६.१९

*अग्निचयनम् :-स य एवैष उखायै संतापाज्जायते तस्मिन्मुञ्जकुलायमवदधाति या ते अग्न ओजस्विनी तनूरोषधीषु प्रविष्टा - - - बौ.श्रौ.सू.१०.१३

*अग्निचयनम् :-समीची नामासि प्राची दिगिति पश्चादासीनः पूर्वे बिले जुहोत्योजस्विनी नामासि दक्षिणा दिगित्युत्तरत आसीनो दक्षिणे बिले जुहोति -- - - - - बौ.श्रौ.सू.१०.४९

*औपानुवाक्यम् :-अथैन्द्रं गृह्णात्युत्तिष्ठन्नोजसा सहेत्यनुद्रुत्योपयामगृहीतोऽसीन्द्राय त्वौजस्वते जुष्टं गृह्णामीति - बौ.श्रौ.सू.१४.११

*एष ते योनिरिन्द्राय त्वौजस्वत इत्यथैनं होष्यन्नवेक्षत इन्द्रौजस्विन्नोजस्वी त्वं देवेषु भूया ओजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुर्विति जुहोति ब्रह्मणश्च त्वा क्षत्रस्य चौजसे जुहोमीति हुत्वा वाचयत्योजोविदस्योजो मा मा हासीन्माहमोजो हासिषं मा मामोजो हासीदिति भक्षयति - बौ.श्रौ.सू.१४.११

*औपानुवाक्यम् :-अथ वै भवति रथमुख ओजस्कामस्य होतव्या इत्योजकामस्य - - - - - - -राष्ट्रभृतो जुहोत्योजो वै राष्ट्रभृत ओजो रथ ओजसैवास्मा ओजो ऽवरुन्द्ध ओजस्व्येव भवति - बौ.श्रौ.सू.१४.१७

*ओदनसवः :- अथैतद्राजतं पात्रं याचति - - - -इन्द्राय त्वौजस्वत ओजस्वन्तं श्रीणामीत्योजो ऽसीति राजन्याय प्रयच्छति - - - -अथ यजमानो मुखं विमृष्ट ओजस्वदस्तु मे मुखमोजस्वच्छिरो अस्तु मे । ओजस्वान्विश्वतः प्रत्यङ्ङोजसा संपिपृग्धि मेति । - बौ.श्रौ.सू.१८.९

*चतुरो ग्रहान्गृह्णाति- - - -अपां य ऊर्मौ रसस्तमहमस्मा आमुष्यायणायौजसे वीर्याय गृह्णामीति नैयग्रोधेन - - - -- - - - -बौ.श्रौ.सू.१८.१०

*इन्द्राग्निभ्यामोजोदाभ्यामुष्टाराविति - बौ.श्रौ.सू.२६.११

*ओदनेनान्नाद्यकामस्य तण्डnलैरोजस्कामस्य । - आपस्तम्ब श्रौत सूत्र ६.१५.१

*माहेन्द्रं शुक्रपात्रेण गृह्णाति । महाँ इन्द्रो य ओजसेति ग्रहणसादनौ । - आप.श्रौ.सू.१३.८.४

*इन्द्रौजस्विन्नित्यैन्द्रं नेष्टा हुत्वौजोविदसीत्यनुमन्त्रयते । - आप.श्रौ.सू.१३.८.९

*यदि कामयेत क्षत्रं विश ओजीयः स्यादित्यग्निष्ठाद्दक्षिणान्वर्षीयसो मिनुयात् - आप.श्रौ.सू.१४.६.८

*अधिपति स्थौजस्वानादित्यानां वो देवानां देवताभिर्गृह्णामि - - - क्षत्रभृत स्थौजस्विनीर्मित्रावरुणयोर्वो ब्रह्मणा देवताभिर्गृह्णामि । - आप.श्रौ.सू.१६.३३.१

*यदि कामयेत क्षत्रं विश ओजीयः स्यादिति ग्रामेऽनुवाक्यस्य त्रीणि चत्वारि वा पदान्यनुद्रुत्या- - - -। यदि कामयेत विट् क्षत्रादोजीयसी स्यादिति यथासमाम्नातमादितस्त्रिभिर्गणैर्हुत्वा - - - आप.श्रौ.सू.१७.१७.१

*त्रयस्त्रिंशतमोजस्कामा वीर्यकामा वा । - आप.श्रौ.सू.२१.१.१४

*मरुतां चतुर्थेनौजो वीर्यमाप्नोति - आप.श्रौ.सू.२२.५.१७

*त्रिणव ओजस्कामः । - आप.श्रौ.सू.२२.६.१९

*ऐन्द्रेणौजस्कामः । - आप.श्रौ.सू.२२.२३.३

*ऐन्द्रं षोडशरात्रमोजस्कामा उपेयुः । - आप.श्रौ.सू.२३.२.११

*सप्तमेनात्यन्याः प्रजा भवन्त्योजिष्ठा भवन्ति । - आप.श्रौ.सू.२३.८.६

*अत्यन्याः प्रजा भवन्त्योजिष्ठा भवन्ति । - आप.श्रौ.सू.२३.१३.८

*ज्योतिष्टोमे सोमभक्ष प्रकरणम् :- ओजसे त्वेन्द्रियाय भक्षयामीति माध्यन्दिने । - शांखायन श्रौत सूत्र ७.५.१३

*दशरात्रे द्वितीयमहः :- इन्द्रौजस्विन्नोजस्वी त्वं देवेष्वस्योजस्व्यहं मनुष्येषु भूयासमित्यतिग्राह्यं भक्षयति - शां.श्रौ.सू.१०.३.१०

*अभिप्लवषडह प्रकरणम् :- अग्न ओजिष्ठमित्याज्यं पञ्चमस्य ( अभिप्लविकस्य )। - शां.श्रौ.सू.११.८.१

*स्वरसामप्रकरणम् :-आ यज्ञैर्बृहद्वयोऽग्न ओजिष्ठमित्याज्यानि । - शां.श्रौ.सू.११.११.७

*होत्रकशस्त्र प्रकरणम् :- य ओजिष्ठ इति तृतीये ( ऽहनि ) - शां.श्रौ.सू.१२.५.७

*वागोजः सह ओजो मयि प्राणापानाविति वषट्कारमुक्त्वोक्त्वानुमन्त्रयते । - आश्वलायन श्रौत सूत्र १.५.१७

*महाँ इन्द्रो यो ओजसा - - - - आश्व.श्रौ.सू.१.६.१

*त्रिवृन्नो विष्टया स्तोमो अह्नां समुद्रो वात इदमोजः पिपर्तु ॥ उग्रा दिशामभिभूतिर्वयोधाः शुचिः शुक्रे अहन्योजसीनाम् - आश्व.श्रौ.सू.४.१२.२

*इन्द्र षोळशिन्नोजस्विंस्त्वं देवेष्वस्योजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु । - आश्व.श्रौ.सू.६.३.२३