पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

दिव्यं ज्ञानं यतो दद्यात् कुर्य्यात् पापस्य सङ्क्षयम् ।

तस्माद्दीक्षेति सा प्रोक्ता मुनिभिस्तन्त्रवेदिभिः ॥ - शब्दकल्पद्रुमः पृ. २.७१४

दीक्षा

१. अग्नीषोमौ वा ऽ एतमन्तर्जम्भऽ आदधाते यो दीक्षते । माश ३, , , २१, , , १९ ।

२. अथ य एतमेतद्दीक्षयन्ति तद् द्वितीयम्म्रियते । वपन्ति केशश्मश्रूणि । निकृन्तन्ति नखान् । प्रत्यञ्जन्त्यङ्गानि । प्रत्यचत्यङ्गुलीः । अपवृतो ऽपवेष्टित आस्ते । न जुहोति । न यजते । न योषितं चरति । अमानुषीं वाचं वदति मृतस्य वावैष तदा रूपं भवति । जैउ ३, , ,४ ।

३. उद्गृभ्णीते वा ऽ एषो ऽस्माल्लोकाद्देवलोकमभि यो दीक्षते । माश ३, , , १ । ४. उभयं वा ऽ एषो ऽत्र भवति यो दीक्षते विष्णुश्च यजमानश्च । माश ३, , , १७

५. एति वा एषो ऽस्माल्लोकाद्यो दीक्षते जन ह्येति, देवलोकमभ्यारोहति । मै ३, , १ ।

६. एवं वा एष यज्ञ सम्भरति यो दीक्षते । माश ३, , , ३ ।

७. गर्भो वा एष भवति यो दीक्षते छन्दासि प्रविशति तस्मान्न्यक्नाङ्गुलिरिव भवति । माश ३, ,,६ ( तु. तैसं ६, ,,,,,३) ।

८. यज्ञादु ह वा एष पुनर्जायते यो दीक्षते । ऐ ७,२२ ।

९. यदह दीक्षते तद्विष्णुर्भवति । माश ३,,,१७ ।

१०. यदा पशून् विन्दते ऽथ दीक्षते । मै ३, , ३ ।

११. यद्वै दीक्षन्ते । अग्नाविष्णू एव देवते यजन्ते । माश १२, , , १ ।

१२. रक्षास्येत सचन्ते यो दीक्षते । काठ २३, ; क ३५,७ ।

१३. सपत्नीको दीक्षेत । जै ३, ३५९ ।

१४. सर्वान् वा एतद् वरुणो गृह्णाति यद्दीक्षते । मनुष्यान् पितॄन् देवान् । काठ २६, २ ।

१५. सर्वाभ्यो वा एष देवताभ्या आप्यायते यो दीक्षते । मै ३, , ७ ।

दीक्षमाण- तानि वा एतानि दीक्षमाणाद् उत्क्रामन्ति । अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पशुबन्धः पितृयज्ञो गृहमेधो ब्रह्मौदनो मिथुनम् । २, ३८ ॥ [ण- क्षत्रिय - २६; दिश् - १७ द्र ] ।

दीक्षा-

१. अन्तरिक्षं दीक्षा । तया वायुर्दीक्षया दीक्षितः ।... आपो दीक्षा । तया वरुणो राजा दीक्षया दीक्षितः । तै ३, , ,५-६ ।

२. ऋतं वाव दीक्षा सत्यं दीक्षा । ऐ १, ६ ( तु. जै २, २०० ।

३. दिशो दीक्षा । तया चन्द्रमा दीक्षया दीक्षितः ।... ओषधयो दीक्षा । तया सोमो राजा दीक्षा दीक्षितः । तै ३, ,, ६-७ ।

४. दीक्षया विराडाप्तव्या । काठ २१,

५. दीक्षयैवात्मानं पुनीते । काठ ३४, ७ ।

६. दीक्षा पत्नी । तैआ ३, , १ ।

७. दीक्षा सोमस्य राज्ञः पत्नी । गो २,, ९ ( तु. मै १,, २ काठ ९, १०, तैआ ३,,१ ) ।

८. देवसवितस्त्वं दीक्षाणां दीक्षापतिरसि । काठ २, २ क १, १४ ।

९. द्यौर्दीक्षा । तयादित्यो दीक्षया दीक्षितः । तै ३, , , ५ ।

१०. धाता ( यज्ञसम्बन्धी विग्रहः ) दीक्षायाम् । तैसं ४, , , , काठ ३४, १४ ।

११. पशुमन्तं दीक्षोपनमति । तैसं ६, १, ६, , काठ २३, १०; क ३७, १ ।

१२. पृथिवी दीक्षा । तयाग्निर्दीक्षया दीक्षितः । तै ३, , , ४-५ ।

१३. प्रजापतिरकामयताश्वमेधेन यजेयेति । स तपोऽतप्यत । तस्य तेपानस्य सप्तात्मनो देवता उदक्रामन् । सा दीक्षाभवत् । तै ३.८, १०, १।

१४. प्राणा ( सत्यं [जै.) दीक्षा । जै१, ; तै ३, , १०, ; माश १३,, , २ ।

१५. य एव पशुमान् भवति तं दीक्षोपनामुका । जै १, २८७ ।

१६. या वै दीक्षा सा निषत् । तत्सत्रं तस्मादेनानासदित्याहुः । माश ४, , , १ ।

१७. वाग्दीक्षा ( + तया प्राणो दीक्षया दीक्षितः [तै.] ) । कौ ७,; तै ३, , , ७ ।

१८. सत्ये ह्येव दीक्षा प्रतिष्ठिता भवति । माश १४, , ,२४ ॥

१९. स ( प्रजापतिः ) दीक्षाभिरेव पौर्णमासीरवारुन्धोपसद्भिरष्टकाः प्रसुतेनामावास्या । जै ३, २ ।

२०. सोमो दीक्षया ( सहागच्छतु ) । तैआ ३, , १॥

[क्षा- अग्नि- ७५; १२३; २९३;३८४;

अनशन - २; अपू- ४८; अवान्तरदीक्षा-; जगती - ६०; तपस् - १८;२८; २९ द्र. ]।

दीक्षा-तपस् विष्णुर्दीक्षातपोभ्याम् (समागच्छतु ) । मै १,, , काठ ९, १० ॥ [पस्- अङ्गिरस् - ३ द्र. ] ।

दीक्षित-

१. अथ न दीक्षितः काष्ठेन वा नखेन वा कण्डूयेत । माश ३, , , ३१ ।

२. अथ यदीक्षितः । अव्रत्यं वा व्याहरति क्रुध्यति वा तन्मिथ्या करोति । माश ३,२,२,२४ ॥

३. अथाध्यात्मम् । अयमेव दीक्षितो यो ऽयं चक्षुषि पुरुषः । जै २, ६३ ।

४. आर्येणेव ( दीक्षितः संवदेत ) ब्राह्मणेन वा क्षत्रियेण वा वैश्येन वैते हि यज्ञियाः । काश ४.१,,६ ।

५. एता वा अपां दीक्षिताः पशुमतीर्यास्स्थावरा लोमशास्संतताः । काठ २२, १३ ।

६. एष ( आदित्यः ) दीक्षितः । गो १, , १ ।

७. कस्य स्विद्धेतोर्दीक्षित इत्याचक्षते श्रेष्ठां धियं क्षियतीति । गो १,,१९ ।

८. तद्यथा पतिं जाया अनिमेषमीक्षेरन्नेवमेवैना (दिशः ) एवंविदं दीक्षमाणमीक्षन्ते । तद्यद् दिग्भिरीक्षितस्तस्माद्दीक्षितः । जै २,५२ ।

९. तस्मादपि ( दीक्षितम् ) राजन्यं वा वैश्यं वा ब्राह्मण इत्येव ब्रूयाद् ब्राह्मणो हि जायते यो यज्ञाज्जायते । माश ३,,,४० ।

१०. तस्माद्दीक्षितः कृष्णविषाणयैव कण्डूयेत नान्येन कृष्णविषाणायाः । माश ३, ,,३१ ।

११. त्रेधा वा एतस्य पाप्मानं विभजन्ते यो दीक्षितो यो ऽन्नमत्ति स तृतीयं यो ऽश्लीलं कीर्तयति स तृतीयं यो नाम गृह्णाति स तृतीयम् । काठ २३,५ ।

१२. दीक्षितस्यैव प्राचीनवशा (शाला) नादीक्षितस्य । माश ३,,,७ ।

१३. देवगर्भो वा एष यद्दीक्षितः । कौ ७,२ ।

१४. न ह वै दीक्षितो ऽग्निहोत्रं जुहुयान्न पौर्णमासेन यज्ञेन यजेत ... न मिथुनं चरेत्... कृष्णाजिनं वसीत कुरीरं धारयेन्मुष्टी कुर्यादङ्गुष्ठप्रभृतयस्तिस्र उच्छ्रयेन्मृगशृङ्गं गृह्णीयात्तेन कषेत । गो १.३,२१ ।

१५. नैनम् ( दीक्षितम् ) अन्यत्र चरन्तमभ्यस्तमियात् । न स्वपन्तमभ्युदियात् । माश ३, , , २७ ।

१६. नैष देवत्रा न मनुष्यत्रा यो दीक्षितः । काठ २३, ; क ३५, ७ ।

१७. नोत्तानो दीक्षितश्शयीत यदुत्तानश्शयीत देवलोकमुपावर्तेत न न्यङ् शयीत, यन्न्यङ् शयीत पितृलोकमुपावर्तेत... तिर्यङ्ङेव शयीत नाग्नेः पराङ् शयीत । काठ २३,५ ।

१८. प्रावृत इव हि दीक्षितः । मै ३, , ६ ।

१९. मैत्रो दीक्षितस्समृद्ध्यै । काठ २३, १ ।

२०. यज्ञव्रतो वै दीक्षितः । तैसं ६, ,,४ ।

२९. यद्वै दीक्षितो ऽमेध्यं पश्यत्यपास्माद्दीक्षा क्रामति, नीलमस्य, हरो व्येत्यबद्धं मनो दरिद्रं चक्षुः ।

२२. योक्त्रेण पत्नी संनह्यते, मेखलया दीक्षितः । मै ३,,७, तैसं ३,,,२ ॥

२३. योनिर्वै दीक्षितस्य दीक्षितविमितं, जरायु कृष्णाजिनमुल्बं दीक्षितवासो नाभिर्मेखला, गर्भो दीक्षितः । मै ३,,७ ।

२४. यो वै दीक्षितानां पापं कीर्त्तयति तृतीयं ( अंशम्) एषा स पाप्मनो हरत्यन्नादस्तृतीयं पिपीलिकास्तृतीयम् । तां ५,,१० ।

२५. रेतो दीक्षितः । मै ३,,१ ।

२६. वायुर्दीक्षितो ऽन्तरीक्षं दीक्षा आदित्यो दीक्षितो द्यौर्दीक्षा, प्रजापतिर्दीक्षितो मनो दीक्षा । जै २,५३ ।

२७. स यः सत्यं वदति स दीक्षितः । कौ ७, ३ ।

२८. सर्वदेवत्यो दीक्षितः । काठ २३, ; क ३५, ७ ।

२९. सर्वस्य वा एष मित्र यो दीक्षितः । मै ३,, ३ ।

३०. स वै धीक्षते । वाचे हि धीक्षते यज्ञाय हि धीक्षते यज्ञो हि वाग् धीक्षितो ह वै नामैतद्यद्दीक्षित इति । मांश ३,, , ३० ।

३१. सिषासवो ( लुब्धकामाः फलार्थिनः ) वा एते यद्दीक्षिताः । ऐ ६, ७ ।

३२. हविर्वै दीक्षितः । मै ३, , , , काठ २३, ; क ३५, , तैआ ५, ,२ ॥ [ °त- अग्नि-१८०; १८१; अग्नीषोम - १०;  अन्तरिक्षदेवत्य- १; आदित्य - १८६; गर्भ- १०; दिश् - १७;

दीक्षा - १, , , १२, १७ द्र. ] ।

 

दीक्षित - विमित- योनिर्दीक्षितविमितम् । काठ २३२ ॥ [ दीक्षित - २३ द्र. ] । ।