पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

दीर्घतमा

ऋग्वेदे १.१४०-१६४ सूक्तानां ऋषिः दीर्घतमा औचथ्यः अर्थात् उचथस्य पुत्रः दीर्घतमा अस्ति। उचथस्य सामान्यार्थः स्तोत्रः अस्ति। उच धातु समवाये, सम्बन्धे अर्थे अस्ति। मनुष्यस्य चेतनायाः ये उच्चतराः स्तराः सन्ति, तेभ्यः साकं सम्बन्धस्थापनम्। पुराणेषु औचथ्यस्य स्थाने उतथ्यशब्दः प्रकट्यते। उतथ्यशब्दोपरि टिप्पणी द्रष्टव्यमस्ति।

     पुराणेषु दीर्घतमसः ये आख्यानाः सन्ति, ते तावत् अनर्थकाः एव सन्ति यावत् लक्ष्मीनारायणसंहितायाः २.३१.८४ अयं कथनं न ध्यायन्ते यत् दीर्घतमसः पत्न्याः नामधेयं प्रद्वेषी अस्ति। भागवतपुराणानुसारेण –

ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च।

प्रेम मैत्री कृपोपेक्षा यः करोति स मध्यमः।।

अस्य श्लोकानुसारेण मनुष्यस्य चेतनायाः चत्वार्यः स्तराः सन्ति। एकः स्तरः ईश्वरे प्रेम्णा सम्बद्धः अस्ति, द्वितीयः तस्य भक्तेभ्यः साकं मैत्र्या, तृतीयः स्तरः वालखिल्य ऊर्जायाः, विरलीभूत ऊर्जायाः अस्ति यस्य शोधनम् पुरुषार्थेन सम्भवं नास्ति, कृपातः संभवमस्ति। चतुर्थः स्तरः द्वेषस्य अस्ति, यत्र प्रकृतिः रूपान्तरणतः द्वेषं करोति। दीर्घतमसः सम्बन्धं चतुर्थप्रकारस्य प्रकृतितः अपि अस्ति। यः तृतीयस्तरः अस्ति, तस्य वर्णनं दीर्घतमसा  बलिराज्ञ्यः पञ्च क्षेत्रज्ञाः पुत्रानुत्पादनरूपेण पुराणेषु सार्वत्रिकरूपेण उपलभ्यते। बलि अर्थात् वालसंज्ञकस्य ऊर्जायाः संघनीकरणम्।

     अयं प्रतीयते यत् दीर्घतमसः पराकाष्ठा दीर्घश्रवस्तमः स्तरे अस्ति। ताण्ड्यब्राह्मणानुसारेण –

दीर्घश्रवा वै राजन्य ऋषिर्ज्योगपरुद्धोऽशनायंश्चरन् स एतद्दैर्घश्रवसमपश्यत् तेन सर्वाभ्यो दिग्भ्योऽन्नाद्यमवारुन्ध सर्वाभ्यो दिग्भ्योऽन्नाद्यमवरुन्धे दैर्घश्रवसेन तुष्टुवानः – तांब्रा. १५.३.२५

 

संदर्भाः

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि।

वि गोभिरद्रिमैरयत्॥ १.००७.०३

द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत्।

द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः॥ १.०९६.०८

याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत्।

कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम्॥ १.११२.११

युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा॥ १.११९.०६

रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत्॥ १.१२२.१५

अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः।

गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त॥ १.१४०.१३

दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे।

अपामर्थं यतीनां ब्रह्मा भवति सारथिः॥ १.१५८.०६

धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः।

दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि॥ २.०२७.०४

अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः।

उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः॥ २.०२७.१४

परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे॥ ३.००७.०१

एष वां देवावश्विना कुमारः साहदेव्यः।

दीर्घायुरस्तु सोमकः॥ ४.०१५.०९

तं युवं देवावश्विना कुमारं साहदेव्यम्।

दीर्घायुषं कृणोतन॥ ४.०१५.१० 

अत्राह ते हरिवस्ता उ देवीरवोभिरिन्द्र स्तवन्त स्वसारः।

यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यन्दयध्यै॥ ४.०२२.०७

ऋतेन दीर्घमिषणन्त पृक्ष ऋतेन गाव ऋतमा विवेशुः॥ ४.०२३.०९

तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम्।

अरिष्टो येषां रथो व्यश्वदावन्नीयते॥ ५.०१८.०३

यदीमिन्द्र श्रवाय्यमिषं शविष्ठ दधिषे।

पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम्॥ ५.०३८.०२

आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे।

रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन्॥ ५.०४५.०९

उत मेऽरपद्युवतिर्ममन्दुषी प्रति श्यावाय वर्तनिम्।

वि रोहिता पुरुमीळ्हाय येमतुर्विप्राय दीर्घयशसे॥ ५.०६१.०९

ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा।

ता सत्पती ऋतावृध ऋतावाना जनेजने॥ ५.०६५.०२

येषामिळा घृतहस्ता दुरोण आँ अपि प्राता निषीदति।

ताँस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत्॥ ७.०१६.०८

प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति।

यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे॥ ७.०६१.०२

एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः।

दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः॥ ७.०७६.०७

दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः॥ ७.०८२.०१

यद्वां कक्षीवाँ उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव।

पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम्॥ ८.००९.१०

यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः।

यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना॥ ८.०१०.०१

अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे।

मिमीते यज्ञमानुषग्विचक्ष्य॥ ८.०१३.३०

दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि।

यजमानाय सुन्वते॥ ८.०१७.१०

अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम।

मित्रस्य व्रता वरुणस्य दीर्घश्रुत्॥ ८.०२५.१७

वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः।

ईशे हि पित्वोऽविषस्य दावने॥ ८.०२५.२०

यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि।

यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम्॥ ८.०५०.१०

इन्द्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम्।

प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः॥ ८.०५९.०७

न सीमदेव आपदिषं दीर्घायो मर्त्यः।

एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते॥ ८.०७०.०७

वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा।

ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः॥ ८.१०१.०२

शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा।

दीदाय दीर्घश्रुत्तमः॥ ८.१०२.११

पुरोजिती वो अन्धसः सुताय मादयित्नवे।

अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम्॥ ९.१०१.०१

आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ।

इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः॥ १०.०१८.०६

यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः।

आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः॥ १०.०२३.०३

सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात्।

सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः॥ १०.०३६.१४

जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः।

वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे॥ १०.०४०.१०

प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम्।

घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः॥ १०.०५१.०८

य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम्।

दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः॥ १०.०६२.०२

दीर्घतन्तुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथ ऋभ्वा।

द्युमान्द्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयो देवयत्सु॥ १०.०६९.०७

नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम्।

भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः॥ १०.०८५.१९

पुनः पत्नीमग्निरदादायुषा सह वर्चसा।

दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम्॥ १०.०८५.३९

विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या काम्यानि।

जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः॥ १०.०९५.१०

तिस्रो देष्ट्राय निर्ऋतीरुपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः।

तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु॥ १०.११४.०२