पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Daaruka   to Dweepi )

Radha Gupta, Suman Agarwal & Vipin Kumar)

HOME PAGE

Daaruka - Diti  ( words like Daarukaa, Daalbhya, Daasa, Dikpaala, Diggaja, Dindi, Diti etc. )

Didehaka - Divodaasa (  Dileepa, Divah, Divaakara, Divodaasa etc.)

Divya - Deepa(Divya / divine, Divyaa, Dishaa / direction, Deekshaa / initiation, Deepa / lamp etc. )

Deepaavali - Deerghabaahu ( Deepti / luminescence, Deergha / long, Deerghatapa, Deerghatamaa, Deerghabaahu etc.)

Deerghikaa - Durga ( Deerghikaa, Dugdha / milk, Dundubhi, Durga/fort etc.)

Durghandha - Duryodhana( Durgama, Durgaa, Durjaya, Durdama, Durmukha, Duryodhana etc. )

Durvaarkshee - Duhitaa( Durvaasaa, Dushyanta etc.)

Duhkha - Drishti  ( Duhshaasana, Duhsaha, Duurvaa, Drishadvati, Drishti / vision etc.)

Deva - Devakshetra (Deva / god, Devaka, Devaki etc.)

Devakhaata - Devaraata ( Devadatta, Devadaaru, Devayaani, Devaraata etc. )

Devaraata - Devasenaa (  Devala, Devavaan, Devasharmaa, Devasenaa etc.)

Devasthaana - Devaasura ( Devahooti, Devaaneeka, Devaantaka, Devaapi, Devaavridha, Devaasura Sangraama etc. )

Devikaa - Daitya  ( Devikaa, Devi / Devee, Desha/nation, Deha / body, Daitya / demon etc. )

Dairghya - Dyau (Dairghya / length, Dolaa / swing, Dyaavaaprithvi, Dyu, Dyuti / luminescence, Dyutimaan, Dyumatsena, Dyumna, Dyuuta / gamble, Dyau etc. )

Draghana - Droni ( Dravida, Dravina / wealth, Dravya / material, Drupada, Drumila, Drona, Druhyu etc.)

Drohana - Dwaara( Draupadi, Dvaadashaaha, Dvaadashi / 12th day, Dwaapara / Dvaapara, Dwaara / door etc. )

Dwaarakaa - Dvimuurdhaa(   Dwaarakaa,  Dwaarapaala / gatekeeper, Dvija, Dwiteeyaa / 2nd day, Dvimuurdhaa etc.)

Dvivida - Dweepi( Dvivida, Dweepa / island etc. )

 

 

द्रप्स

प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः।

द्रप्सा मध्वश्चमूषदः॥ १.०१४.०४

द्रप्साः  बिन्दुरूपाः 

ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः।

पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः॥ १.०६४.०२

द्रप्सिनः वृष्ट्युदकबिन्दुभिर्युक्ताः । मरुतः सृष्टां वृष्टिं नयन्ति

अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन्।

सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव॥ १.०९४.११

द्रप्साः ज्वालैकदेशाः 

ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा।

अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति॥ ४.०१३.०२

द्रप्सं पार्थिवं रजः दविध्वत् धुन्वन् गविषः गा इच्छन् सत्वा न वृषभ इव 

माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधम्।

तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते॥ ५.०६३.०४

अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान्।

गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा॥ ७.०८७.०६

द्रप्सो न द्रवणशील उदबिन्दुरिव 

उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः।

द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त॥ ७.०३३.११

वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम्।

द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा॥ ८.०१७.१४

द्रप्सः द्रवणशीलः सोमः

अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।

आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥१३॥

द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।

नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥१४॥

अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।

विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥८.९६.१५

अनु द्रप्सास इन्दव आपो न प्रवतासरन्।

पुनाना इन्द्रमाशत॥ ९.००६.०४

द्रप्सासः द्रुतगतयः

उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि।

पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति॥ ९.०६९.०२

दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम्।

अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ॥ ९.०८५.१०

अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे।

यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत॥ १०.०११.०४

द्रप्सं नात्यल्पं नातिबहुलं सोमम् 

द्रप्सश्चस्कन्द प्रथमाँ अनु द्यूनिमं च योनिमनु यश्च पूर्वः ।

समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥११॥

यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् ।

अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥१२॥

यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा ।

अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥ऋ. १०.१७.१३

अस्मे धेहि द्युमतीं वाचमासन्बृहस्पते अनमीवामिषिराम्।

यया वृष्टिं शंतनवे वनाव दिवो द्रप्सो मधुमाँ आ विवेश॥ १०.०९८.०३

 त्वयाधिष्ठितः द्रप्सः उदकस्यन्दः मधुमान् माधुर्योपेतः विवेश आविशति 

आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम्।

नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य॥ १०.०९८.०४

द्रप्साः वृष्टिसंस्त्यायाः

द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन्।

भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि॥ १०.१२३.०८

द्रप्सः द्रवणशीलः । यद्वा । द्रप्सा उदकबिन्दवः । 

द्रप्सस्ते दिवं मा स्कान् इति, यो वा अस्या रसः स द्रप्स, स्तं इमं प्रजा उपजीवन्ति, तमस्यां यच्छति , अस्कन्दाय ॥- मै ४.१.१०

अथ विसृप्य वैप्रुषान् होमाञ् जुहोति <द्रप्सश् चस्कन्द [ऋ. १०.१७.११, पै.सं. २०.१३.७, शौ.सं. १८.४.२८, वै.श्रौ.१६.१७]>इति या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्य् अंशुर् वा ता एवास्यैतद् आहवनीये स्वगाकरोति आहवनीयो ह्य् आहुतीनां प्रतिष्ठा <यस् ते द्रप्स स्कन्दति [ऋ. १०.१७.१२अ, पै.सं. २०.१३.८अ, वै.श्रौ.१६.१७]>इति स्तोको वै द्रप्सः- गो २.२.१२

स मनसा वाचं मिथुनं समभवत् । सोऽष्टौ द्रप्सान्गर्भ्यभवत्तेऽष्टौ वसवोऽसृज्यन्त तानस्यामुपादधात् स मनसैव । वाचं मिथुनं समभवत्स एकादश द्रप्सान्गर्भ्यभवत्त एकादश रुद्रा असृज्यन्त तानन्तरिक्षऽउपादधात् स मनसैव । वाचं मिथुनं समभवत्स द्वादश द्रप्सान्गर्भ्यभवत्ते द्वादशादित्या असृज्यन्त तान्दिव्युपादधात् माश ६.१.२.८

असौ वा आदित्यो द्रप्सः स दिवं च पृथिवीं च स्कन्दतीमं च योनिमनु यश्च पूर्वं इतीमं च लोकममुं चेत्येतत् समानं योनिमनु संचरन्तमिति समानं ह्येष एतं योनिमनु संचरति द्रप्सं जुहोम्यनु सप्त होत्रा इत्यसौ वा आदित्यो द्रप्सो दिशः सप्त होत्रा अमुं तदादित्यं दिक्षु प्रतिष्ठापयति' -श. ब्रा. ७. ४. १. २० इति ।

अथ यदाज्यहविषः प्रयाजा भवन्ति। तस्मात्कुमारस्य रेतः सिक्तं न सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यमथ यन्मध्ये यज्ञस्य दध्ना पुरोडाशेनेति यजन्ति तस्मादस्य मध्यमे वयसि सम्भवति द्रप्सीवैव भवति द्रप्सीव हि रेतोऽथ यदाज्यहविष एवानुयाजा भवन्ति तस्मादस्य पुनरुत्तमे वयसि न सम्भवत्युदकमिवैव भवत्युदकमिव ह्याज्यम् - ११.४.१.१५

उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधिजातः ।
द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वेदेवाः पुष्करे त्वाददन्त ॥
अप्यसि मैत्रावरुणो वसिष्ठ । उर्वश्या ब्रह्मन् मनसोऽधिजातः । द्रप्सं स्कन्नम् । ब्रह्मणा दैव्येन । द्रप्सः संभृतः । प्सानीयो भवति । सर्वे देवाः पुष्करे त्वाधारयन्त । पुष्करमन्तरिक्षम् । पोषति भूतानि । उदकं पुष्करम् । पूजाकरम् । पूजयितव्यम् । इदमपीतरत्पुष्करमेतस्मादेव । पुष्करं वपुष्करं वा । पुष्पं पुष्पतेः ।
- निरुक्तः ५.१४

द्वितीयं प्रहरति । अपाररुम् । अररुः असुरः तमपनीय । पृथिव्यै पृथिव्याः देवयजनाच्च अपाररुं वध्यासम् । व्रजं गच्छेति समानम् । अभिन्यस्यत्यग्नीदुत्करमररो दिवमिति । हे अररो, त्वं दिवं द्युलोकं । मा पप्तः मा गमः। तृतीयं प्रहरति द्रप्सस्ते द्याम् । योऽस्याः पृथिव्या उपजीवनीयो रसः स द्रप्सः ते तव द्यां द्युलोकम् । मा स्कन् मास्कान्सीद मास्कन्तु । व्रजं गच्छति समानम् ॥ वा.सं. १.२६ उवटभा.

 

द्रप्स - (१) भूमि का अग्रभाग धूलि (२) द्रुत गति से जाने वाला (३) अच्छी प्रकार पालित, पोषित, (४) वेतन द्वारा रक्षित सेनाबल 'द्रप्सं दविध्वत् गविषो न सत्वा' ऋ. ४.१३.२ (५) द्रुत गति से काष्ठों को खाने वाला अग्नि 'तव द्रप्सो नीलवाने वाश ऋत्वियः ' ऋ. ८.१९.३१, साम. २.११७३. (६) सूर्य 'द्रप्सश्चस्कन्द पृथिवीमनुद्याम्' ऋ. १०.१७.११, अ. १८.४.२८, वाज.सं. १३.५, तै.सं. ३.१.८.३, ४.२.८.२, ९.५, मै.सं. २.५.१०, ६१.१४, ३.२.६,२३.१५, ४.८.९, ११८.१०, का.सं. १३.९,१६.१५, ३५.८, श.ब्रा. ७.४.१.२०, तै.आ . ६.६.१. (७) रस रूप से आस्वादन करने योग्य । 'अधत्यं द्रप्सं विभ्वं विचक्षणम् ' ऋ. १०.११.४, अ. १८.१.२१.

(८) दर्पवान् , गर्वीला (९) कुत्सित कुटिल आचार वाला (१०) कुरीतियों और अनाचारों से प्रजाओं को खा जाने वाला। 'अव द्रप्सो अंशुमतीमतिष्ठत्' ऋ. ८.९६.१३, अ. २०.१३७.७, साम. १.३२३. का.सं. २८.४, ऐ.ब्रा. ६.३६.१२, गो.ब्रा. २.६.१६, तै.आ. १.६.३, आश्व.श्रौ.सू. ८.३.३३, वै.सू. ३२.३३. (११) आदित्य (१२) दृप् + स = द्रप्स (बाहुलक से) दृप्यन्ति अनेन (इस से दृप्त होते हैं या हर्षित होते हैं) । अर्थ है- शुक्र, वीर्य - (१३) जलविन्दु-दया. ।

'उतासि मैत्रावरुणो वसिष्ठ उर्वश्या ब्रह्मन् मनसोऽधिजातः

द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वेदेवाः पुष्करे त्वाददन्त ।' ऋ. ७.३३.११, नि. ५.१४.

हे वसिष्ठ या वासकतम जल, तू मित्र और वरुण से या मित्र और वरुण नामक वायुओं से उत्पन्न हुआ । तू उर्वशी के मन से या विद्युत् के सामर्थ्य से उत्पन्न हुआ। मैत्रावरुण का वीर्य उर्वशी को देखकर स्खलित हो गया या जल रूप में परिणत तुझ को किरणों ने (विश्वे देवाः) अन्तरिक्ष में धारण किया । या स्खलित वीर्य को विश्वेदेवों ने जल के कलश में धारण किया ।

(१४) दधि । द्रप्सः सम्भृतः प्सानीयः भवति । (रेतस् के रूप में द्रप्स् पुरुष के अंग अंग से निकलकर स्त्री योनि में सञ्चित होता है। और दधि के रूप में वह प्सानीय या भक्षणीय होती है) । अमर कोष में द्रप्सं दधि घनेतरत' अर्थात् कठिन दही से अन्य दही को द्रप्स कहा है । लप्सी या लस्सी इसी का अपभ्रंश है । अंग्रेजी का Drops भी द्रप्स का ही अपभ्रंश है ।

(१५) सर्वानन्द ने 'द्रप्सं द्राक् प्सानीयम्’ - द्रप्स शीघ्र खाने योग्य होता है ऐसा कहा है। बैल को खाने के लिए जो दिया जाता है उसे सानी कहते हैं । 'प्सानीय' का ही अपभ्रंश सानी है।'

द्रप्सवान् - रसयुक्त । 'अपूपवान् द्रप्सवांश्चरुरेह सीदतु' अ. १८.४.१८

द्रप्सी- (१) मेघ, (२) मेघ के समान ज्ञानजल बरसाने वाला,

सत्वानोन द्रप्सिनो घोरवर्पसः' -ऋ. १.६४.२

-    वैदिक कोश (ले. उपाध्याय व उपाध्याय, नाग प्रकाशक)